SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ द्वादशं हरिकेशीयमध्ययनम् पुनः प्रसादयन्नाह बालेहिं मूढेहिं अयाणएहिं जं हीलिया तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति न हु मुणी कोवपरा हवंति ॥३१॥ व्याख्या - बालैः शिशुभिर्मूढैः कषायमोहनीयवशगैरज्ञैर्हिताहितविवेकविकलैर्यद्धीलिताः । 'तस्स' त्ति सूत्रत्वात् तत् क्षमध्वं भवन्तः । यतोऽमी ईदृशा अतो न द्वेष्याः, किन्त्वनुकम्पनीया एव । यदुक्तम् — "आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम् " ॥१॥ किञ्च महाप्रसादा ऋषयो भवन्ति । 'न हु' त्ति न पुनर्मुनयः कोपपरा भवन्तीति ॥ ३१ ॥ मुनिराह— पुव्विं च इन्हिं च अणागयं च मणप्पओसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करिति तम्हा हु एए निहया कुमारा ॥३२॥ - पूर्वं प्राणिदानीं वाऽधुनाऽनागते च भविष्यत्काले मनः प्रद्वेषो न 'मे' मम अस्तीत्युपलक्षणाद् आसीद् भविष्यति च कोऽपीत्यल्पोऽपि । यक्षा देवविशेषा 'हु' र्यस्माद् वैयावृत्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति तस्मात् 'हुरेवार्थे' तस्मादेव हेतोरेते निहतास्ताडिताः कुमारा न तु मम प्रद्वेषहेतुनेति भावः ||३२|| व्याख्या- ३९१ ततोऽध्यापकाद्या इदमाहुः अत्थं च धम्मं च वियाणमाणा तुब्भे न वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या -अर्थं च शास्त्राणामेव धर्मं च क्षान्त्यादि विजानन्तोऽवबुध्यमाना यूयं नैव कुप्यथ क्रोधं कुरुथ । भूतिर्मङ्गलं रक्षा वृद्धिर्वा ततः सर्वमङ्गलोत्तमत्वप्राणिरक्षकत्वादिना तथाभूता प्रज्ञा बुद्धिर्येषामिति भूतिप्रज्ञाः । अतश्च 'तुब्भं तु' त्ति युष्माकमेव पादौ शरणमुपेमोपगच्छामः समागता मिलिताः सर्वजनेन सह वयमिति ||३३|| किञ्च अच्चे ते महाभागा ! न ते किंचि न अच्चिमो ? | भुंजाहि सालिमं कूरं नाणावंजणसंजुयं ॥३४॥ व्याख्या–अर्चयामः पूजयामः 'ते' त्ति सुप्व्यत्ययात् त्वां भो महाभागा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy