________________
द्वादशं हरिकेशीयमध्ययनम्
पुनः प्रसादयन्नाह
बालेहिं मूढेहिं अयाणएहिं जं हीलिया तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति न हु मुणी कोवपरा हवंति ॥३१॥
व्याख्या - बालैः शिशुभिर्मूढैः कषायमोहनीयवशगैरज्ञैर्हिताहितविवेकविकलैर्यद्धीलिताः । 'तस्स' त्ति सूत्रत्वात् तत् क्षमध्वं भवन्तः । यतोऽमी ईदृशा अतो न द्वेष्याः, किन्त्वनुकम्पनीया एव । यदुक्तम् — "आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्
"
॥१॥
किञ्च महाप्रसादा ऋषयो भवन्ति । 'न हु' त्ति न पुनर्मुनयः कोपपरा भवन्तीति ॥ ३१ ॥
मुनिराह—
पुव्विं च इन्हिं च अणागयं च मणप्पओसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करिति तम्हा हु एए निहया कुमारा ॥३२॥ - पूर्वं प्राणिदानीं वाऽधुनाऽनागते च भविष्यत्काले मनः प्रद्वेषो न 'मे' मम अस्तीत्युपलक्षणाद् आसीद् भविष्यति च कोऽपीत्यल्पोऽपि । यक्षा देवविशेषा 'हु' र्यस्माद् वैयावृत्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति तस्मात् 'हुरेवार्थे' तस्मादेव हेतोरेते निहतास्ताडिताः कुमारा न तु मम प्रद्वेषहेतुनेति भावः ||३२||
व्याख्या-
३९१
ततोऽध्यापकाद्या इदमाहुः
अत्थं च धम्मं च वियाणमाणा तुब्भे न वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो समागया सव्वजणेण अम्हे ॥ ३३ ॥
व्याख्या -अर्थं च शास्त्राणामेव धर्मं च क्षान्त्यादि विजानन्तोऽवबुध्यमाना यूयं नैव कुप्यथ क्रोधं कुरुथ । भूतिर्मङ्गलं रक्षा वृद्धिर्वा ततः सर्वमङ्गलोत्तमत्वप्राणिरक्षकत्वादिना तथाभूता प्रज्ञा बुद्धिर्येषामिति भूतिप्रज्ञाः । अतश्च 'तुब्भं तु' त्ति युष्माकमेव पादौ शरणमुपेमोपगच्छामः समागता मिलिताः सर्वजनेन सह वयमिति ||३३||
किञ्च
अच्चे ते महाभागा ! न ते किंचि न अच्चिमो ? | भुंजाहि सालिमं कूरं नाणावंजणसंजुयं ॥३४॥
व्याख्या–अर्चयामः पूजयामः 'ते' त्ति सुप्व्यत्ययात् त्वां भो महाभागा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org