________________
३८९
द्वादशं हरिकेशीयमध्ययनम् दुर्धरमहाव्रतो घोरपराक्रमश्च कषायादिजयं प्रति रौद्रसामर्थ्योऽतो मा एनं मुनि हीलयतावगणयताहीलनीयं नावज्ञातुमुचितम् । किमित्यत आह-मा सर्वांस्तेजसा तपोमाहात्म्येन 'भे' भवतो निधाक्षीद् भस्मसात् कार्षीत् । अयं हि कदाचिद् रुष्येद् भस्मसात् कुर्यादेवेति भावः ॥२३॥
अर्थतस्या वचो मा भून्मृषेति यक्षो यत् कृतवांस्तदाहएयाइं तीसे वयणाई सुच्चा पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए जक्खा कुमारे विणिवारयति ॥२४॥ ते घोररूवा ठिय अंतलिक्खे असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते पासित्तु भद्दा इणमाहु भुज्जो ॥२५॥
अनयोर्व्याख्या—एतानि पूर्वोक्तानि तस्या वचनानि श्रुत्वा पत्न्याः सोमदेवपुरोहितस्य भद्रायाः सुभाषितानि सूक्तानि ऋषेस्तस्यैव 'वेयावडियट्ठाए' त्ति वैयावृत्त्यार्थं इह वैयावृत्यमेतत्प्रत्यनीकनिवारणलक्षणं कार्यं तदर्थं यक्षाः 'इह तत्परिकरस्य बहुत्वाद् बहुवचनम्' । कुमारांस्तानेव विनिवारयन्ति विशेषेण निराकुर्वन्ति ॥ तथा ते यक्षा घोररूपा रौद्राकाराः 'ठिय' त्ति स्थिता अन्तरिक्षे आकाशे असुरा असुरभावान्वितास्तस्मिन् यज्ञपाटे तं साधूपसर्गकारिणं जनं छात्रादिकं ताडयन्ति घ्नन्ति । ततस्तान् कुमारान् भिन्नदेहान् यक्षप्रहारैर्विदारिताङ्गान् रुधिरं वमत: 'पासित्तु' त्ति दृष्ट्वा भद्रा सैव इदं वक्ष्यमाणं 'आहु' त्ति वचनव्यत्ययादाह ब्रूते भूयः पुनरिति गाथाद्वयार्थः ॥२४-२५।।
किं तदित्याहगिरिं नहेहिं खणह अयं दंतेहिं खायह । जायतेयं पाएहिं हणह जे भिक्खुं अवमन्नह ॥२६॥ आसीविसो उग्गतवो महेसी घोव्वओ घोरपरक्कमो य । अगणिं व पक्खंद पयंगसेणा जे भिक्खुयं भत्तकाले वहेह ॥२७॥ सीसेण एयं सरणं उवेह समागया सव्वजणेण तुम्हे । जइ इच्छह जीवियं वा धणं वा लोगं पि एसो कुविओ डहिज्जा ॥२८॥
आसां व्याख्या-गिरि पर्वतं नखैः खनथेव 'अत्र तत्खननक्रियाऽसम्भवादिवार्थो गम्यः' । अयो लोहं दन्तैः खादथेव । जाततेजसमग्नि पादैहन्थेव । ताडयथेव । ये यूयं 'भिक्खुं' प्रस्तावादेनं 'अवमन्नह'त्ति अवमन्यध्वे अवधीरयथ । अनर्थफलो हि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org