________________
द्वादशं हरिकेशीयमध्ययनम्
३८७ व्याख्या-अध्यापकानामुपाध्यायानां प्रतिकूलभाषी विरूपवादी सन् प्रभाषसे प्रकर्षेण ब्रूषे 'किमिति क्षेपे, नुरित्यक्षमायां' धिग् भवन्तं न वयं क्षमामहे । यदीत्थं त्वं ब्रूषे सकाशे समीपेऽस्माकम् । अप्येतद् दृश्यमानं विनश्यत्वन्न-पानं न च नैव ‘णं वाक्यालङ्कारे' 'दाहामु' त्ति दास्यामस्तव हे निर्ग्रन्थ ! गुरुप्रत्यनीकत्वाद्, अन्यथा त्वनुकम्पया किञ्चिद् दद्यामोऽपीति भावः ॥१६॥
यक्षोऽवदत्समिईहिं मज्झं सुसमाहियस्स गुत्तीहिं गुत्तस्स जिइंदियस्स । जइ मे न दाहित्थ अहेसणिज्जं किमज्ज जन्नाण लभित्थ लाभं ? ॥१७॥
व्याख्या-समितिभिरीर्यादिभिर्मह्यं सुसमाहिताय सुष्ठुसमाधिमते गुप्तिभिर्गुप्ताय जितेन्द्रियाय 'चतुर्थ्यर्थे षष्ठी' । यदि मे न दासस्थ 'अथेत्यानन्तर्ये' एषणीयमेषणाशुद्धमन्नादि किं ? 'न किञ्चिदित्यर्थः' अद्येदानीमारब्धयज्ञानां लप्स्यथ लाभं पुण्यप्राप्तिरूपम् । पात्रदानादेव हि तत्प्राप्तिरन्यत्र दीयमानस्य हानिरेव । यत:
"दधि-मधु-घृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति ।
एवमपात्रे दत्तानि केवलं नाशमुपयान्ति" ॥१॥ इति ।।१७।। अध्यापकः प्राहके इत्थ खत्ता उवजोइया वा अज्झावया वा ? सह खंडिएहिं । एयं खु दंडेण फलेण हंता कंठंमि चित्तूण खलेज्ज जो णं ॥१८॥
व्याख्या केऽत्रास्मिन् स्थाने क्षत्राः क्षत्रियाः, 'उवजोइय' त्ति उपज्योतिषोऽग्निसमीपवर्तिनो महानसिका अध्यापकाः पाठकाः सह खण्डिकैश्छात्रैर्युक्ता एतं श्रमणकं दण्डेन वंशादिना फलेन बिल्वादिना हत्वा कण्ठे गृहीत्वा च 'खलेज्ज' त्ति स्खलयेयुनिष्काशयेयुः । 'जो' त्ति वचनव्यत्ययाद् ये समर्थाः । ‘णमलङ्कारे' । 'केऽपि सन्ति, ये एनं स्खलयेयुरिति वाक्यार्थः' ॥१८॥
अथ यदभूत्, तदाहअज्झावयाणं वयणं सुणित्ता उद्धाइया तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव समागया तं इसिं तालयंति ॥१९॥
व्याख्या-अध्यापकानां वचनं श्रुत्वोद्धाविता वेगेन प्रसृतास्तत्र, यत्र मुनिरस्ति । बहवः कुमारास्तरुणच्छात्राः 'अहो ! क्रीडनकमागतम्' इति रभसतो
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org