________________
३८६
उत्तरज्झयणाणि-१ ब्राह्मणानाम्। मृषा अलीकमदत्तं च 'चशब्दान्मैथुनम्' परिग्रहश्च द्विपद-चतुष्पदादीनाम् 'अस्तीति सर्वत्र योज्यम्' । ते क्रोधाद्युपेता यूयं ब्राह्मणा जाति-विद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यत उक्तम्
"एकवर्णमिदं सर्वं पूर्वमासीद् युधिष्ठिर !। क्रिया-कर्मविभागेन चातुर्वण्र्यं व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत्" ॥२॥ न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, विद्याप्यहिंसादिप्रपञ्चकशास्त्रात्मिका न सम्भवति भवत्सु अज्ञानसूचकेषु हिंसोपदेष्ट्रषु तेषु प्रवृत्तत्वात् । तत: 'ताई तु' त्ति 'तुरवधारणे' तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि क्रोधाद्युपेतत्वेन पापहेतुत्वादिति ॥१४॥ .
वेदवेत्तृत्वेन वयमेव ब्राह्मणा इत्यत्राहतुब्भे त्थ भो भारहरा गिराणं अटुं न याणाह अहिज्ज वेए । उच्चावयाइं मुणिणो चरंति ताई तु खेत्ताई सुपेसलाई ॥१५॥
व्याख्या-यूयमत्र लोके भोः ! भारधरा भारमात्रवाहकाः । कासां ? गिरां प्रक्रमाद् वेदसम्बन्धिनीनां वाचां यतोऽर्थमभिधेयं न जानीथ । 'अहिज्ज' त्ति 'अपेर्गम्यत्वात्' अधीत्यापि वेदान् आत्मा रे ज्ञातव्या मन्तव्यो निदिध्यासितव्य इत्यादीन् । एषां यद्यर्थवेत्तारः स्युस्तर्हि यागादीन् न कुर्वीरन् । ततस्तत्त्वतो वेदविद्याविदोऽपि भवन्तो न भवन्ति । तत् कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? । तर्हि कानि क्षेत्राणि ? इत्याह-उच्चावचान्युत्तमाधमानि 'गृहाणीति गम्यम्' मुनयश्चरन्ति भिक्षार्थं ये, न तु भवन्त इव स्वयं पचनाद्यारम्भप्रवृत्तयः । ततस्तत्त्वतस्त एव वेदार्थं विदन्ति, तत्र भैक्ष्यवृत्तेरेव समर्थितत्वाद् यदाहुर्वेदान्तवादिनः
"चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि ।
एकान्नं नैव भुञ्जीत बृहस्पतिसमादपि" ॥१॥ ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति ॥१५।।
छात्राः प्राहुःअज्झावयाणं पडिकूलभासी पभाससे किं नु सगासे अम्हं ? । अवि एवं विणस्सउ अन्न-पाणं न य णं दाहामु तुमं नियंठा ! ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org