________________
उत्तरज्झयणाणि-१ व्याख्या-आज्ञाया अनिर्देशकरः । गुरूणामनुपपातकारकः । प्रत्यनीकः प्रतिकूलवर्ती । असम्बुद्धोऽज्ञाततत्त्वो यः सोऽविनीत इत्युच्यते । कूलवालकश्रमणवत् । तथाहि
गच्छे कुत्रापि कस्याप्याचार्यस्य श्रुतशालिनः । शिष्यानुशास्ति दक्षस्य दुःशिष्यः कोऽप्यजायत ||१|| स नैव सहते शिक्षा गुरौ वैरायते भृशम् । हितमप्यहितीकृत्य वेत्ति गुर्वनुशासनम् ॥२॥ तीर्थं शत्रुञ्जयं नत्वाऽन्यदाऽवतरतस्ततः । पश्चाद् गुरोः स मुमुचे वधाय महतीं शिलाम् ॥३॥ पतन्तीं तां गुरुर्मत्वा प्रसार्यांही अटालयत् । तादृग्भावं च विज्ञाय तं शशापेति रोषतः ॥४॥ विनाशमाप्यस्यसि स्त्रीभ्यो दुरात्मन् ! कर्मणाऽमुना । तद्वचः सोऽप्यवज्ञाय मिथ्या कर्तुं विभिद्य च ॥५॥ उपशत्रुञ्जयं नद्याः कूले तेपे तपोऽन्वहम् । पान्थात् कस्मादपि कदाचित् करोत्येष पारणम् ।।६।। एवमुत्कटशीलस्य तपसोऽस्य प्रभावतः । वाहं व्यावर्त्तयामास नदी वर्षासु दूरतः ॥७॥ महातपस्विमुख्योऽयं विख्यातः क्षितिमण्डले । स कूलवालक इति प्रथितोऽभिधयाऽभितः ॥८॥ इतश्चाशोकचन्द्रोऽस्ति राजा राजगृहेश्वरः । पद्मावत्याऽन्यदा राड्या वाक्प्रपञ्चप्रतारितः ॥९॥ भ्रातृहल्ल-विहल्लाभ्यां पितृदत्तमपि स्वयम् । हार-कुण्डलयुग्माद्याच्छेत्तुमैच्छदनच्छधीः ॥१०॥ बलाद् जिघृक्षु तं मृत्वा प्रतस्थाते तु तौ ततः । उपचेटकभूपालं वैशाली जग्मतुः पुरीम् ॥११।। ततः सर्वाभिसारेण प्राचलत् कौणिको नृपः । प्रयाणभम्भामावाद्य दशभिर्बन्धुभिः सह ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org