________________
प्रथमं विनयाध्ययनम्
मयि प्रसादं कुर्वाणः श्रीसङ्गः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्योऽहं दास्ये सप्त वाचनाः ॥१५।। भिक्षाऽनन्तरमेका सा कालवेलासु तत्त्रयम् । सायाह्नप्रतिक्रमणे जाते तिस्रोऽपराः पुनः ।।१६।। सेत्स्यत्येवं सङ्घकार्यं मत्कार्यस्याविबाधया । ताभ्यामेत्य तथाऽऽख्याते सङ्घोऽत्यर्थमहृष्यत ॥१७॥ प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशती ततः ।। तां सूरिर्वाचयामास प्रज्ञोन्मिषितमानसाम् ॥१८।। वाचनीयं बहु स्वल्पा वाचनाः किमिहाऽऽस्महे ? । इत्युद्भज्य गताः सर्वे स्थूलभद्रस्त्ववास्थित ।।१९।। गुरूणामन्तिकस्थायी स्थूलभद्रो विनीतराट् । अब्दाष्टकेन पूर्वाणामष्टकं लीलयाऽपठत् ॥२०॥ अष्टावब्दानि जातानि न तादृक् पठितं पुनः । स इत्थं चिन्तयाऽऽर्तोऽपि चक्रे स्वाकारसंवरम् ॥२१॥ किमुद्विग्नस्तदेत्युक्तः सूरिणा सोऽब्रवीदिदम् । का चिन्ता स्वामिनः ! किन्तु ममाल्पाः सन्ति वाचनाः ॥२२।। सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥२३॥ आज्ञानिर्देशमीदृक्षं तथेति प्रतिपद्य सः । भद्रबाहुगुरोर्भक्तिं तन्वन्नध्यैष्ट सोद्यमः ॥२४|| पूर्णे ध्याने महाप्राणे स्थूलभद्रो महामुनिः । अपूर्वदशपूर्वाणि ससूत्रार्थं समापयत् ॥२५॥ चत्वारि सूत्रतः पूर्वाण्यधीत्यान्त्यानि स क्रमात् ।
गुज़माचार्यतां प्राप्तस्तद् विनीतो मुनिर्भवेत् ॥२६।। इति गुरुसमीपावस्थानाज्ञानिर्देशकरणे स्थूलभद्रकथा ॥२॥ अथ विनयविपर्ययमविनयं धर्मिद्वारेणाह
आणाऽणिद्देसकरे गुरूणमणुववायकारए । पडिणीए असंबुद्धे अविणीए त्ति वुच्चई ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org