________________
उत्तरज्झयणाणि-१ अस्त्यत्र विश्वविख्यातं पाटलीपुत्रपत्तनम् । यत्राभूद् नवमो नन्दभूपतिर्भरतार्द्धभुक् ॥१॥ इतश्च तत्र दुष्काले कराले कालरात्रिवत् । निर्वाहार्थं साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥२॥ तदा क्षुत्क्षामसाधूनामनभ्यासेन विस्मृतौ । सूत्रार्थों यदहो ! प्रायः क्षुधा धर्मार्थनाशिनी ॥३॥ सन्तोषतः शुभध्यानात् पोतादिव महोदधिम् । अथ चैते कथमपि तेरुर्दुष्कालसागरम् ॥४॥ तदन्ते पाटलीपुत्रे सङ्घोऽपि सकलोऽमिलत् । श्रुतं यद् यस्य पार्वेऽभूत् तस्मादेकत्र तत् कृतम् ॥५॥ ततश्चैकादशाङ्गानि श्रीसङ्घोऽमेलयत् तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ।।६।। नेपालदेशग्रामस्थं भद्रबाहुं च पूर्विणम् । मत्वा सङ्घः समाह्वातुं ततः प्रैषीद् मुनिद्वयम् ।।७।। गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः सङ्घस्तत्रागमनहेतवे ॥८॥ गुरुराह महाप्राणध्यानमारब्धवानहम् । साध्यं द्वादशभिर्वषैस्ततो नाऽऽगमनं मम ॥९॥ महाप्राणे हि संसिद्धे कार्ये कस्मिन्नपस्थिते । अन्तर्मुहूर्ताद् गुण्यन्ते पूर्वाणि सकलान्यपि ॥१०॥ तद्वचस्तौ मुनी गत्वा सङ्घायाशंसतामथ । सङ्घोऽप्यपरमाहूयादिदेशेति यतिद्वयम् ॥११॥ गत्वा वाच्यास्त्वयाऽऽचार्या यः श्रीसङ्घस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंसत ॥१२॥ सङ्घबाह्यः स कर्त्तव्य इत्युक्ते तैः श्रुतानुगैः । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य उच्चकैः ॥१३।। ताभ्यां गत्वा तथैवोक्तमाचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् सङ्घः किन्तु करोत्वदः ॥१४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org