________________
प्रथमं विनयाध्ययनम्
कषायमोहनीयं तथा च नञोऽत्राल्पार्थत्वादनगारस्य स्थिति- प्रदेशानुभागतोऽल्पकषायमोहनीयस्येत्यर्थः । भिक्षोः - यतिन: पचन - पाचनाद्युपरतस्यात एव भिक्षणशीलस्य यतेर्विनयं साध्वाचारमभ्युत्थानादिकं वा प्रादुः करिष्यामि प्रकटयिष्यामि । आनुपूर्व्या परिपाट्या 'सुपां सुपो भवन्ति' इति वचनादत्र तृतीयार्थे द्वितीया । शृणुताकर्णयत श्रवणं प्रत्यवहिता भवत, शिष्याभिमुखीकरणमित्यर्थः, अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं स्यात् । तथा चोवाच वाचक:
" न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । बुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति" ॥१॥
स च विनयः पञ्चधा । तत्र लोकोपचारविनयो लोकपङ्क्तिफल: १, अर्थविनयोऽर्थप्राप्त्यर्थमीश्वराद्यनुवर्त्तनम् २, भयविनयो दुर्धृष्यराजामात्यादेः प्राणापहारादिभयेन प्रसादनम् ३, कामविनयः कामहेतोर्विषयसामग्रीसम्पादनार्थं प्रवर्त्तनम् ४, मोक्षविनय इहलोकानपेक्षस्य कर्मक्षयार्थं दर्शनाद्याराधनम् ५ । इह तु मोक्षविनयेनैवाधिकारः तं च शृणुत मे मम 'कथयतः' इति शेषः । इति सूत्रार्थः ॥१॥
विनयः किल धर्मः, धर्म- धर्मिणोरभिन्नत्वाद् धर्मिद्वारेण तत्स्वरूपमाह— आणाणिद्देसकरे गुरूण उववायकारए ।
इंगियाकारसंपणे से विणीए त्ति वुच्चई ॥२॥
व्याख्या- - आज्ञा भगवदभिहितागमरूपा तस्या निर्देश उत्सर्गापवादाभ्यां प्रतिपादनमिदमित्थमनुष्ठेयमिदं चेत्थमित्येवंरूपस्तत्करः । यद्वा आज्ञा सौम्य ! इदं कुरु, मेदमिति गुरुवचस्तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानं तत्करः आज्ञानिर्देशकरः । तथा गुरूणामुपपातो दृग्विषयदेशावस्थानं तत्कारकः, नत्वादेशभीत्या दूरस्थायी । इङ्गितं प्रवृत्तिनिवृत्तिसूचक भ्रूशिरः कम्पादिकम् आकारः प्रस्थानादिभावसूचको दिगवलोकनादिः । यदाह-
""अवलोयणं दिसाणं वियंभणं साडगस्स संवरणं । आसणसिढिलीकरणं पट्ठियलिंगाई एयाई ॥१॥"
अनयोर्द्वन्द्वे इङ्गिताकारौ तावर्थाद् गुरुगतौ सं सम्यक् प्रकर्षेण जानातीङ्गिताकारसंप्रज्ञः । स एवंविधो विनीत उच्यते । अत्रार्थे स्थूलभद्रदृष्टान्तः
---
१. अवलोकनं दिशां विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org