________________
उत्तरज्झयणाणि-१ "कॅम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं ।
सणयं सोदाहरणं तं चेव इहं पि नायव्वं" ॥ जिनभाषितत्वमप्येषां, यथा द्रुमपत्रकाध्ययनस्य । उक्तं हि "तं निस्साए भगवं सीसाणं देइ उवएसम्" इति श्रीवीरेण चैतदुपदिष्टम् । प्रत्येकबुद्धकृतमपि किञ्चिदध्ययनं, यथा कापिलीयम् । परस्परप्रश्नोत्तरवचनरूपमपि किञ्चिद्, यथा केसि-गौतमीयम् । न तु स्थविरविरचितान्येवैतानि, यदाह चूर्णिकार:-"सुत्तं थेराण अत्तागमो''त्ति । नन्द्यध्ययनेऽप्युक्तम्-"जस्स जेत्तिया सिस्सा, उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तेत्तियाइं पइन्नगसहस्साइं" । प्रकीर्णकानि चामूनि तत् कथं जिनदेशितत्वाद्येषामुपपन्नम् ?, उच्यते, तथास्थितानामेव जिनकपिलादिवचसामिहोपनिबद्धत्वेन तद्देशितत्वाद्यविरोधः, अयमर्थो निक्षेप-नयानुयोगादिविस्तरश्च विस्तरार्थिना बृहट्टीकातः परिकलनीयः । सर्वेषु चैषूत्तराध्ययनेषु धर्म एव सविशेष प्रतिपाद्यः, स च किल विनयमूलः । यतः-"एवं धम्मस्स विणओ मूलं, परमो य से मुक्खो''त्ति । सोऽपि सर्वेषामाभरणभूतः । उक्तं हि
"न तथा सुमहाधैरपि वस्त्राभरणैरलङ्कृतो भाति ।
श्रुत-शील-मूलनिकषो विनीतविनयो यथा भाति" ॥१॥ अत एव सूत्रकारः श्रोतृश्रोत्रसुधारूपं वैरङ्गिकवैराग्यरसकूपं भव्यजनमनःपुण्यपुण्यानुबन्धि श्रीमदुत्तराध्ययनसिद्धान्तसम्बन्धि षड्विंशदध्ययनमुख्यं विनयश्रुताख्यमध्ययनं प्रारिरिप्सुः सम्बन्धाभिधेयसूचिकामाद्यां गाथामाह
___ संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो ।
विणयं पाउकरिस्सामि आणुपुग्वि सुणेह मे ॥१॥ व्याख्या संयोगान् मात्रादिविषयाद् बाह्यात्, कषायविषयादाभ्यन्तरात् सम्बन्धाद् विविधैर्ज्ञान-भावनाऽऽदिभिः प्रकारैः प्रकर्षेण परीषहादिसहिष्णुतालक्षणेन मुक्तो भ्रष्टो विप्रमुक्तस्तस्य अनगारस्य । तत्रागारं द्विधा, द्रव्य-भावभेदात्, तत्रागैदृषत्काष्ठादिबहिर्द्रव्यैर्निर्वृत्तं द्रव्यागारं तद्रहितस्य परार्थनिष्पन्नगृहे वसतोऽपि निर्ममत्वादविद्यमानगृहस्येत्यर्थः । भावागारं पुनरगैर्जीवविपाकितया शरीरपुद्गलादिष्वन्तःप्रवृत्तैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं
१. कर्मप्रवादपूर्वे सप्तदशे प्राभृते यत् सूत्रम् । सनयं सोदाहरणं तच्चैवेहापि ज्ञातव्यम् । २. तन्निश्रया भगवान् शिष्येभ्यो ददात्युपदेशम् । ३. सूत्रं स्थविराणामात्मागमः । ४. यस्य यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्धोपपेतास्तस्य तावन्ति प्रकीर्णकसहस्राणि । ५. एवं धर्मस्य विनयो मूलं परमश्च स मोक्षः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org