SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अर्हम् श्रीकमलसंयमोपाध्यायकृतसर्वार्थसिद्धिटीकोपेतम् उत्तराध्ययनसूत्रम् स्वस्ति श्रीमज्जिनभद्रसूरिसद्गुरुभ्यो नमः श्रीवर्द्धमानजिनराजगुरुक्रमाब्जं, विद्वन्मनःकुमुदबोधनपार्वणाब्जम् । प्रीत्या प्रणामविषयं प्रयतो विधाय; वागीश्वरी च निजचेतसि सन्निधाय ॥१॥ श्रीगौतमादिगणभृन्निवहं प्रणुत्य, जम्बूगुरुप्रमुखपूर्वधरांश्च सर्वान् । अन्यानपि श्रुतधराञ्जिनभद्रसूरीन्; सौवान् गुरूंश्च समयाम्बुधिलब्धपारान् ॥२॥ श्रीउत्तराध्ययनसूत्रसमासवृत्ति, स्पष्टैकपाठविवृत्तिप्रगुणां प्रकुर्वे । नानार्थसार्थमहतीरुपजीव्य टीकाः, श्रौतार्थलीनभविकोपचिकीर्षयाऽहम् ॥३॥ त्रिभिः कुलकम् इह खलु जगज्जन्तुजातजीवातुसमानः संसारापारदुर्वारपारावारपारप्रापणपोतायमानः परमाखिलपुरुषार्थप्रधानः स्वर्गश्रीसम्पदाभोगपरिभोगसमाधानः सिद्धिवधूसम्बन्धसाधनसावधानः सकलजीवदयामूलः समुच्छेदितच्छदादिभवव्रततिमूलः समूलकाषङ्कषितकुगतिकूलङ्कषाकूलः शाश्वतसुखसानुकूलः सर्वदर्शनप्रेयान् धर्म एव श्रेयान् । स च प्रायः प्रभवति धर्मकथानुयोगात्, स च ज्ञाताधर्मकथादाविवोत्तराध्ययनेष्वपि विविक्ततया सम्प्रत्यधिकृत इत्येतदनुयोगः समासतः कश्चिदारभ्यते । इह च आचाराङ्गोत्तरकालं पठ्यमानत्वेनोत्तराण्युत्तरशब्दवाच्यान्यध्ययनान्युत्तराध्ययनानि । शय्यम्भवं यावदसौ क्रमस्तदारतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति विशेषः । एषां चाङ्गप्रविष्टदृष्टिवादादिप्रभवत्वं केषाञ्चित्, यथा परीषहाध्ययनस्य, तथा च नियुक्तिकार: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy