________________
३८४
उत्तरज्झयणाणि-१ जक्खो तहिं तिंदुयरुक्खवासी अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं इमाइं वयणाइं उदाहरित्था ॥८॥
व्याख्या—यक्षस्तस्मिन् ‘अवसरे इति गम्यम्' । तिन्दुकवृक्षवासी अनुरूपं कम्पते चेष्टते इत्यनुकम्पकोऽनुरूपक्रियाप्रवृत्तिः । कस्य ? तस्य महामुनेहरिकेशबलस्य प्रच्छाद्य प्रकर्षेणावृत्य निजकमात्मीयं शरीरं को भावः ? तद्देह एवानुप्रविश्य स्वयमनुपलक्ष्यः सन्निमानि वचनानि 'उदाहरित्थ' त्ति उदाहृतवानुक्तवान् ।।८।।
तान्येवाहसमणो अहं संजओ बंभयारी विरओ धण-पयण-परिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले अन्नस्स अट्ठा इहमागओ म्हि ॥९॥
व्याख्या-श्रमणोहं संयतोऽसद्व्यापारनिवृत्तो ब्रह्मचारी विरत उपरतो धनपचन-परिग्रहात् 'समाहारादेकत्वम्' । तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्छ । अत एव परप्रवृत्तस्य परार्थनिष्पन्नस्य 'न तु मदर्थं साधितस्येति भावः' । भिक्षाकालेऽन्नस्यार्थाय भोजनार्थमिह यज्ञपाटके आगतोऽस्मीति ॥९॥
पुनः साधुः प्राहवियरिज्जइ खज्जइ भोज्जई य अन्नं पभूतं भवयाणमेयं । जाणाहि मे जायणजीविणु त्ति सेसावसेसं लहऊ तवस्सी ॥१०॥
व्याख्या-वितीर्यते दीयते दीनार्थिभ्यः, खाद्यते खण्ड-खाद्यादि, भुज्यते च भक्त-सूपाद्यन्नं प्रभूतं भवतां सम्बन्ध्येतत् प्रत्यक्षम् । तथा जानीतावगच्छत 'मे' त्ति मां 'जायणजीविणु' त्ति याचनेन जीवनशीलमित्येवं स्वरूपमतो मह्यमपि ददध्वमिति भावः । ततः सेषावशेषमुद्धरितस्याप्युद्धरितं भोज्यं लभतां तपस्वी यतिरिति ॥१०॥
एवं यक्षेणोक्ते विप्राः प्राहु:उवक्खडं भोयण माहणाणं अत्तट्ठियं सिद्धमिहेगपक्खं । न ऊ वयं एरिसमन्न-पाणं दाहामु तुब्भं किमिहं ठिओ सि ? ॥११॥
व्याख्या-उपस्कृतं लवणादिसंस्कृतं भोजनं माहनानां ब्राह्मणानां आत्मार्थे भवमात्मार्थिकं ब्राह्मणैरप्यात्मनैवभोज्यं नान्यस्मै देयं यतः सिद्धं निष्पन्नमिह यज्ञपाटके एको ब्राह्मणः पक्षोऽस्य तदेकपक्षम् । को भावः ? यदत्रोपस्क्रियते तद् ब्राह्मणव्यतिरिक्ताय न दीयते, विशेषतस्तु शूद्राय । यदुक्तम्
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org