SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३८२ उत्तरज्झयणाणि-१ देशान्तरात् तदाहूता विप्रा द्वि-त्र्यादिवेदिनः । अहम्पूविकयाऽनेके सम्प्राप्तास्तत्र सोन्मुदः ॥५८।। इतश्च हरिकेशबलमहर्षिस्तदा स मासोपवासपारणके । यज्ञगृहे भिक्षाऽर्थं समितः प्रविवेश गुप्तिधरः ॥५९।। शेषकथानकं सूत्रेणैवाह सोवागकुलसंभूओ गुणुत्तरधरो मुणी । हरिएसबलो नाम आसी भिक्खू जिइंदिओ ॥१॥ व्याख्या-श्वपाककुलसम्भूतश्चाण्डालकुलोत्पन्नो गुणोत्तरान् प्रधानान् ज्ञानादीन् धारयतीति गुणोत्तरधरो मुनिः हरिकेशः श्वपाकतया प्रसिद्धो बलो नाम आसीदभूत् । भिनत्ति क्षुधमष्टविधं कर्मेति भिक्षुरत एव जितेन्द्रियः ॥१॥ तथा इरि-एसण-भासाए-उच्चार-समिईसु य । जओ आयाण-निक्खेवे संजओ सुसमाहिओ ॥२॥ व्याख्या-'भासाए' त्ति 'एकारस्यालाक्षणिकत्वात्' ईर्या-एषणा-भाषोच्चारसमितिषु यतो यत्नवान् । तथा आदानं ग्रहणं निक्षेपः स्थापनं पीठ-फलकादेस्तत्समितौ च 'यत इति योज्यम्' । स च कीदृग् ? संयतः संयमवान् सुसमाहितः सुष्ठ समाधिमानिति ॥२॥ तथा मणगुत्तो वयगुत्तो कायगुत्तो जिइंदिओ । भिक्खट्ठा बंभइज्जमि जन्नवाडमुवट्ठिओ ॥३॥ व्याख्या-मनोगुप्तो नियन्त्रितमनाः । वाग्गुप्तो रुद्धासद्वाक् । कायगुप्तोऽसदङ्गक्रियाविकलो जितेन्द्रियः । 'पुनरेतद्ग्रहणमतिशयख्यापनार्थम्' । भिक्षार्थ 'बंभइज्जंमि' त्ति ब्राह्मणानामिज्या यजनं यस्मिन् स ब्रह्मज्यस्तस्मिन् यज्ञवाटे 'द्वितीया सप्तम्यर्थे' उपस्थितः प्राप्तः ॥३॥ तं पासिऊणमिज्जंतं तवेण परिसोसियं । पंतोवहि-उवगरणं उवहसंति अणारिया ॥४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy