SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८१ द्वादशं हरिकेशीयमध्ययनम् राज्ञा च तां तथाभूतां सुतां दृष्ट्वा विषादिना । भौतिका मान्त्रिकास्तत्र समाहूता अनेकशः ॥४४॥ तैवैद्यैश्च चतुर्भेदाः सोद्यमैर्विहिताः क्रियाः । परं विशेषो नो जातो यन्त्र-मन्त्राद्युपायकैः ॥४५॥ बीजा इवोषरक्ष्मोप्तास्तेऽभूवन् निष्फलक्रियाः । ततो यक्षस्तदङ्गस्थः प्रोचेऽनिन्द्यनया मुनिः ॥४६॥ यद्येनां तस्य भो दत्थ तदा मुञ्चामि नान्यथा । एषा जीवत्विति क्षमापः स्वीचक्रे तद्वचोऽञ्जसा ॥४७|| ततः सज्जशरीरा सा सर्वालङ्कारभूषिता । मुनेः समीपं सम्प्राप्तोद्वाहोपकरणान्विता ॥४८॥ साऽथ व्यजिज्ञपन्नत्वा तमृर्षि ससखीजना । स्वयंवराया मे हस्तं गृहाण स्वकरेण भोः ! ॥४९।। तपस्वी प्राह हे भद्रे ! सृतं सङ्कथयाऽनया । नरकद्वारपद्धत्या विबुधैरतिनिन्द्यया ॥५०॥ सिद्धिसुखबद्धरागा अशुचिषु युवतिषु कथं नु रज्यन्ते ? । ग्रैवैयकदेवा इव परमार्थज्ञा महामुनयः ॥५१॥ जातामर्षेण ततो यक्षेणाच्छाद्य तत्र यतिरूपम् । वैक्रियनानारूपैविडम्बिता सा भृशं रात्रौ ॥५२॥ प्रातः सा स्वप्नमिव सुमन्यमानाऽपि दुर्मनस्कतया । स्वजनानुगम्यमाना गता सखेदा पितृसकाशम् ॥५३।। तदा भूपालमाह स्म रुद्रदेवः पुरोहितः ।। भद्रोपलब्धवृत्तान्तो वेद-स्मृति-पुराणवित् ॥५४॥ भोः स्वामिन् ! ऋषिपत्न्येषा त्यक्ता तेन महात्मना । कार्या विप्रस्य पत्नीति राज्ञा तस्यैव सा ददे ॥५५।। एवं पुरोधसस्तस्य कान्तया कान्तया तया । भुञ्जानस्य सदा भोगान् कियान् कालोऽगमत् सुखम् ॥५६॥ अथो पुराद् बहिस्तेन रुद्रदेवपुरोधसा । यज्ञं च यजता सैव यज्ञपत्नी कृता प्रिया ॥५७।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy