________________
३८०
उत्तरज्झयणाणि-१
यतः१
"नियगुण-दोसेहितो संपय–विवयाउ हुंति पुरिसाणं । ता उज्झिऊण दोसे गुणे पयासेह भो भव्वा !" ॥१॥ एवं स भावयन् जातजातिस्मृतिरथ स्मरन् । स्वर्गसौख्यानि रौद्रत्वं मदादीनां च चिन्तयन् ॥३३॥ संवग्निः साधुपादान्ते प्रव्रज्यामग्रहीद् बलः । तप्यमानस्तपस्तीवं काशी च विहरन् ययौ ॥३४॥ तत्रास्थात् तिन्दुकोद्याने सिषेवे तत्र सादरम् । तं गण्डी तिन्दुको यक्षस्तद्गुणावर्जितो यतिम् ॥३५॥ अन्यदान्येन यक्षेणागत्य पृष्टः स तिन्दुकः । किं त्वं न दृश्यशे ! सोऽवक् सेवे एनमृषि सदा ॥३६।। यक्षो बलमुनिं दृष्ट्वा स हृष्टस्तिन्दुकं जगौ । तपस्व्येष वनेऽवात्सीद् यस्य धन्यः स पुण्यवान् ॥३७।। मित्र ! केऽपि मदुद्याने मुनयः सन्ति तानपि । वन्दामहे गतौ तत्र दृष्टास्ते तु प्रमादिनः ॥३८।। ततो बल वेकस्मिन् जातौ यक्षावुभावपि ।
रक्तौ भक्तौ तमेवास्थात् सेवमानस्तु तिन्दुकः ॥३९॥ इतश्च
भद्राऽभिधाऽन्यदा हर्षात् पुत्री कोशलिभपतेः । पूजोपकरणं लात्वा सखीभिः परिवारिता ॥४०॥ तद् यक्षवेश्म सा गत्वा यक्षार्चामचितुं प्रगे । प्रदक्षिणां प्रकुर्वन्ती ददर्श मलिनाङ्गकम् ॥४१॥ तप:शोषितसर्वाङ्गं जीर्णदुर्गन्धवाससम् । थूत्कृत्वास्यं मोटयित्वा तं महर्षि निनिन्द च ॥४२॥ युग्मम् ततो रुष्टेन यक्षेणाधिष्ठिता सा विडम्बिता । नीता चेटीभिरुत्पाट्य कथञ्चन पितुर्गृहे ॥४३।।
१. निजगुण-दोषेभ्यः सम्पद्-विपदौ भवतः पुरुषाणाम् ।
तत उज्झित्वा दोषान् गुणान् प्रकाशयत भो भव्याः ! ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org