________________
३७९
द्वादशं हरिकेशीयमध्ययनम्
भावयति न हृद्येवं शुभाशुभाशेषकर्मपरिणामाः ।
परिवर्तन्ते हि भवे नानायोनिष्वखिलजीवाः ॥२४॥ यत:
"सुरो वि कुक्कुरो होइ रंको राया वि जायए ।
दिओ वि होइ मायंगो संसारे कम्मदोसओ" ॥१॥ 'गुणैरेवोत्तमत्वं प्राप्यते न जात्या' इति, उक्तं हि
"गुणैरुत्तमतां याति न तु जातिप्रभावतः । क्षीरोदधेः समुत्पन्नः कालकूटः किमुत्तमः ?" ॥१॥ एवं जातिमदादिग्रस्तो मृत्वा स ताविषं प्राप । च्युत्वा ततश्च गङ्गातीरे बलकोट्टनाम्नस्तु ॥२५॥ हरिकेशपतेगौरीभार्याकुक्षौ वराङ्गजत्वेन ।। मधुकुसुमितचूततरुस्वप्नेक्षासूचितो जज्ञे ॥२६।। काले साऽसूत सुतं बल इति नाम प्रतिष्ठितं तस्य । क्रमशः प्रवर्धमानो विषवृक्ष इवातिदुःखकरः ॥२७|| जातिमदाद्यवलेपान्मातङ्गकुलोद्भवः कुरूपश्च । हसनीयः स्वजनानां सर्वजनोद्वेजकः सोऽभूत् ॥२८॥ मधूत्सवेऽन्यदा प्राप्ते नृत्यं कुर्वत्सु बन्धुषु । बालैः स भण्डनं कुर्वन् सर्वैर्दूरीकृतस्तः ॥२९।। पार्श्वस्थ एव तान् पश्यन क्रीडतो हर्षपरितान् । तावदागाद् विषधरः श्वपचैः स हतः फणी ॥३०॥ ततस्तदैव तत्रागाच्छान्तो जलभुजङ्गमः । तैरदुष्टोऽयमिति स प्रमुक्तो व्यचरन् महीम् ॥३१॥ तवृत्तं प्रेक्ष्य सोऽध्यासीज्जीवाः कष्टं स्वदोषतः । लभेयुर्यज्जना घ्नन्ति सविषाहि न निविषम् ॥३२॥
१. सुरोऽपि कुर्कुरो भवति रङ्को राजाऽपि जायते ।
द्विजोऽपि भवति मातङ्गः संसारे कर्मदोषतः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org