________________
३७६
उत्तरज्झयणाणि-१ व्याख्या-यथा स स्वयम्भूरमण उदधिः समुद्रोऽक्षयोदकोऽविनाशिजलः । नानारत्नैर्मरकतादिभिः प्रतिपूर्णो भृतः । एवं भवति बहुश्रुतः । सोऽपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नवांश्च स्यादिति ॥३०॥
बहुश्रुतमाहात्म्यमाह
समुद्दगंभीरसमा दुरासया अचक्किया केणइ दुप्पधंसिया । सुयस्स पुन्ना विउलस्स ताइणो खवित्तु कम्मं गइमुत्तमं गया ॥३१॥
व्याख्या-समुद्रस्य गाम्भीर्येणालब्धमध्यात्मकेन समाः । आर्षत्वाद् गाम्भीर्येण समुद्रसमा इत्यर्थः । दुःखेनाश्रीयन्तेऽभिभवबुद्ध्या जेतुं सम्भाव्यन्ते केनापीति दुराश्रया अत एवाचकिता अत्रसिता परप्रवादिना दुःखेन प्रधय॑न्ते पराभूयन्ते केनचिदपीति दुःप्रधर्षकाः । के ईदृशाः ? इत्याह-'सुब्ब्यत्ययात्' श्रुतेन पूर्णा विपुलेनाङ्गानङ्गदिभेदतो विस्तीर्णेन त्रायिणो रक्षका एवंविधा बहुश्रुता एव । एषामेव विशेषतः फलमाह-क्षपयित्वा कर्म ज्ञानावरणादि गतिमुत्तमां मुक्तिरूपां गताः प्राप्ता उपलक्षणाद् गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेऽपि बहुत्वनिर्देशः पूज्यताख्यापनार्थं व्याप्तिदर्शनार्थं वेति ॥३१॥
इत्थं बहुश्रुतपूजामुक्त्वा शिष्योपदेशमाह
तम्हा सुयमहिट्ठिज्जा उत्तमट्ठगवेसए ।
जेणप्पाणं परं चेव सिद्धि संपाउणिज्जासि ॥३२॥ त्ति बेमि ॥
व्याख्या–यस्मादमी बहुश्रुता मुक्तिगामिनस्तस्माच्छ्रुतमधितिष्ठेदध्ययन–श्रवणचिन्तनादिभिराश्रयेत् । उत्तमार्थो मोक्षस्तं गवेषयतीत्युत्तमार्थगवेषकः । येन श्रुताश्रयणेनात्मानं परं च 'एवोऽवधारणार्थोऽग्रे योज्यते' सिद्धि सम्प्रापयेदेवेति ब्रवीमि पूर्ववत् ॥३२॥ ग्रं० २०६ अ० १६॥ इति श्रीकमलसंयमोपाध्यायविरतिचायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
एकादशं बहुश्रुतपूजाख्यमध्ययनं समाप्तम् ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org