SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ एकादशं बहुश्रुतपूजाख्यमध्ययनम् ३७५ मुद्गादिधान्यैः प्रतिपूर्णः । एवं भवति बहुश्रुतः । सोऽपि सामाजिकानामिव गच्छवासिमुनीनां प्रवचनाधारतया सुरक्षितः । यतः-"जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादि । धान्यैरिवाङ्गोपाङ्गादिश्रुतभेदैः प्रतिपूर्णः स्यादिति ॥२६॥ तथा जहा सा दुमाण पवरा जंबू नाम सुदंसणा । अणाढियस्स देवस्स एवं हवइ बहुस्सुए ॥२७॥ व्याख्या-यथा सा द्रुमाणां मध्ये प्रवरा जम्बूर्नाम्ना सुदर्शना सुदर्शनेत्यपराभिधाना। यथेयममृतोपमफला देवाद्याश्रया च, तथा नान्यः कश्चिद् द्रुमोऽस्ति । द्रुमत्वं फलव्यवहारश्चास्यास्तदाकारतयैव, वस्तुतः पार्थिवत्वात्, वज्र-वैडूर्यादिमयमूलत्वक् चास्याः । कस्य ? अनादृतस्य देवस्य जम्बूद्वीपपतेय॑न्तरस्याश्रयभूता । एवमित्यादि प्राग्वत् । सोऽपि ह्यमृतोपमफलकल्पश्रुतोपेतो देवाद्यभिगम्यः । शेषद्रुमाभसाधुप्रवर इति ॥२७॥ जहा सा नईण पवरा सलिला सागरंगमा । सीया नीलवंतप्पवहा एवं हवइ बहुस्सुए ॥२८॥ व्याख्या-यथा सा नदीनां प्रवरा सलिलं जलमस्यामिति 'अर्श आदित्वादचि' सलिला नदी सागरङमा समुद्रयायिनी शीतानाम्नी नीलवान् मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रवहतीति नीलवत्प्रवहा । एवं भवति बहुश्रुतः । सोऽपि सरित्समानानामन्यमुनीनां प्रधानो जलकल्पश्रुतज्ञानान्वितः । सागरोपममुक्तिगामी । तदुक्तानुष्ठानप्रवृत्तत्वात् नीलवत्तुल्योच्चोच्चतरकुलोत्पन्न इति ॥२८॥ जहा से नगाण पवरे सुमहं मंदरे गिरी । नाणोसहिपज्जलिए एवं हवइ बहुस्सुए ॥२९॥ व्याख्या-यथा स नगानां प्रवरः सुमहानतिशयेन गुरुर्मन्दरो गिरिर्मेरु - नौषधिभिविशिष्टमाहात्मयवनस्पतिभिः प्रज्वलितो दीप्तो नानौषधिप्रज्वलितः । एवं भवति बहुश्रुतः । सोऽपि श्रुतमाहात्म्येन, अतिस्थिरत्वेन शेषगिरिकल्पापरसाधूनां प्रवरो नानौषधिभिरिवामदैषध्यादिलब्धिभिस्तमस्यपि प्रकाशकः ॥२९॥ जहा से सयंभूरमणे उदही अक्खओदए । नाणारयणपडिपुन्ने एवं हवइ बहुस्सुए ॥३०॥ १. येन कुलमायत्तं तं पुरुषमादरेण रक्षत । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy