SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ एकादशं बहुश्रुतपूजाख्यमध्ययनम् ३७३ व्याख्या-यथा करेणुपरिकीर्णो हस्तिनीपरिवृतः कुञ्जरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाणस्तस्य तावत्कालं यावद्वलोपचयादत एव बलवान् सन्नप्रतिहतो नान्यैर्मत्तैरपि गजैः पराभूयत इत्यर्थः । एवं भवति बहुश्रुतोऽयमपि करेणुभिरिवौत्पत्तिक्यादिबुद्धिभिर्विधिधाभिर्विद्याभिर्वावृतः षष्टिहायनतयाऽतिस्थिरमतिरत एव बलवत्त्वेनाप्रतिहतो दर्शनोपहन्तृभिर्न प्रतिहन्तुं शक्यः स्यात् ॥१८॥ किञ्च जहा से तिक्खसिंगे जायक्खंधे विरायई । वसहे जूहाहिवई एवं हवइ बहुस्सुए ॥१९॥ व्याख्या-यथा स तीक्ष्णशृङ्गो जात उपचितीभूतः स्कन्धोऽस्येति जातस्कन्धो विराजते वृषभो यूथस्य गोसमूहस्याधिपति!थाधिपतिः सन् । एवं भवति बहुश्रुतः । सोऽपि परपक्षभेत्तृतया तीक्ष्णाभ्यां स्वशास्त्र-परशास्त्राभ्यां शृङ्गाभ्यामिवोपलक्षितो गच्छादिगुरुकार्यधौरेयतया जातस्कन्ध इव यूथस्य साध्वादिवृन्दस्याधिपतिः सूरिपदं प्राप्तः सन् विराजते ॥१९॥ अन्यच्च जहा से तिक्खदाढे उदग्गे दुप्पधंसगे।। सीहे मिगाण पवरे एवं हवइ बहुस्सुए ॥२०॥ व्याख्या—यथा स तीक्ष्णदंष्ट्र उदग्र उत्कटोऽत एव दुःप्रधर्षकोऽन्यैर्दुभिभवनीयः सिंहो मृगाणामारण्यजन्तूनां प्रवरः । एवं भवति बहुश्रुतः । अयमपि परपक्षभेत्तृतया तीक्ष्णदंष्ट्रासमैनँगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभवो मृगाणामिवान्यतीर्थ्यानां प्रवर इति ॥२०॥ तथा जहा से वासुदेवे संख-चक्क-गयाधरे । अप्पडिहयबले जोहे एवं हवइ बहुस्सुए ॥२१॥ व्याख्या-यथा स वासुदेवः शङ्ख-चक्र-गदाधरोऽप्रतिहतबलोऽस्खलितसामर्थ्यो योधः सुभट एवं भवति बहुश्रुतः । सोऽपि हि स्वाभाविकप्रतिभाप्रागल्भ्यवान् शङ्खादिभिरिव ज्ञानादिभिरुपेतो योध इव कर्मशत्रु प्रतीति ॥२१॥ जहा से चाउरते चक्कवट्टी महिड्डिए । चउदसरयणाहिवई एवं हवइ बहुस्सुए ॥२२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy