________________
३७२
उत्तरज्झयणाणि-१ प्रभो ! श्रीभद्रबाह्वाख्यैः सूरिभिर्गुणभूरिभिः । एतत्पुत्रस्य सप्ताहमात्रमायुः प्रभाषितम् ॥४०॥ भूपः प्राह गुरोर्वाचा सङ्गता यदभूदहो ! । बहुश्रुतत्वमेवात्र गुरुर्गौरवमर्हति ॥४१॥ आल्पश्रुत्यं तु विप्रस्य यद्वचो नामिलत् पुनः । एवमुक्ते पराभूतः सोऽनिन्दि निखिलैर्जनैः ॥४२॥ ततो नृपः सपौरस्तु स्तावं स्तावं गुरुर्मुदा । पूजं पूजं दर्शनादि श्राद्धधर्मं प्रपेदिवान् ॥४३।। वराहस्तापसी दीक्षां लात्वा लोकापमानतः । कृत्वा चाज्ञानकष्टानि मिथ्याग् वव्यन्तरोऽभवत् ॥४४॥ स द्विषन्नार्हतं धर्मं कुप्यन्नप्यार्हतान् मुनीन् । नालम्भूष्णुरुपद्रोतुं रोगैः श्राद्धानपीडयत् ॥४५।। गुरून् विज्ञपयामास श्रीसङ्घोऽथ कृताञ्जलिः । श्रीमत्सु सत्सु प्राणाय्यास्तेनाद्यन्ते यदास्तिकाः ॥४६।। नूनं तदेवमापन्नं भषणैर्भक्ष्यते भृशम् । गजारूढः प्रभोस्तच्चोपेक्षितुं ते न साम्प्रतम् ॥४७॥ ततस्ते प्राहराचार्या मा भैष्टोपासकास्तथा । उद्यस्यामो यथा वोऽपकर्तुं स्यात् कोऽपि न प्रभुः ॥४८॥ वराहो व्यन्तरीभूतः स साधून् प्रति न क्षमः ।। भवद्भ्यः पूर्वविद्वेषाद् दुध्रुक्षति सुदुष्टधीः ॥४९।। तैरुद्दधेऽथ पूर्वेभ्यः उपसर्गहरस्तवः । तत्स्मृतेस्तत्कृतापायात् सङ्के शान्तिरजायत ॥५०॥ एवं बहुश्रुतत्वे यतितव्यं यत्नतः सदा यतिभिः ।
यस्मात् सम्यग् ज्ञानं मानं परिपोस्फुरीति यशः ॥५१॥ पुनर्बहुश्रुतस्तुतिमाह
जहा करेणुपरिकिण्णे कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए एवं हवइ बहुस्सुए ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org