________________
३७१
एकादशं बहुश्रुतपूजाख्यमध्ययनम्
उक्तञ्च गुरवे श्राद्धैरेकदा गम्यतां प्रभो ! । तद्गृहं मा वृधत् कोपस्तस्य वृद्धिरनर्थदा ॥२६॥ भद्रबाहुरथ प्राह सप्तमेऽह्नि तदङ्गजः । रात्रौ बिडालिकाघातात् स परासुर्भविष्यति ॥२७॥ ततस्तद्वेश्म गन्तव्यं तस्य शोकापनुत्तये । श्राद्धैरवाचि पित्रोचे तस्य चायुः समाः शतम् ॥२८॥ श्रीमद्भिरेवमादिष्टं ततो गुरुरदोऽवदत् । ज्ञानं प्रत्ययसारं हि विश्रुतं वित्थ भोः ! इह ।।२९।। सप्तमेऽह्नि ततो रात्रौ धात्रीस्तन्यं पिबन् भृशम् । बालो द्वारार्गलापातात् प्राप्तवान् प्रेतमन्दिरम् ॥३०॥ रोदं रोदं वराहस्तु सतन्त्रो व्यलपत् तदा । जनोऽमिलन् महीशाधो हा ! कि जातमिति ब्रुवन् ॥३१॥ सूरिः शोकापनोदाय वराहसदनं गतः । शुचाक्रान्तोऽपि सोऽभ्युत्थानासनाधुचितं व्यधात् ॥३२॥ विप्रोऽवादीद् भवज्ज्ञानं मिमिले भगवन् ! पुनः । बिडाल्या इत्यलीकं तत् सोऽर्गलातोऽनशद् यतः ॥३३॥ गुरुराहार्गलाग्रे सा लोहय्मयस्ति रेखया । अप्युष्णतां भजेदिन्दु स्मद्विदितमन्यथा ॥३४॥ तथाभूतां तु तां दृष्ट्वा वराहः प्राह नो तथा । खेदः पुत्रवियोगान्मे वचोविघटनाद् यथा ॥३५॥ किं च वाङ्मयसम्बद्धपस्तकप्रत्ययेन यत् । मया प्राकाशि तज्ज्ञानं व्यलीकास्तेऽभवन्मम ॥३६।। अतोऽम्भसात् करिष्यामि तानथो गुरुरभ्यधात् । मैवं कृथा हि नो दोषस्तेषां स हि धियस्तव ॥३७॥ सर्वज्ञोदितमेवैते भाषन्ते प्रत्ययावहम् । एवं स नोदितस्तस्थौ वीक्षापन्नश्च्युतेषुवंत् ॥३८॥ राज्ञोक्तं मा स्म शोचीस्त्वं भवस्थितिरियं यतः । तावद् धर्मवतैकेन सचिवेन निवेदितम् ॥३९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org