________________
३७०
उत्तरज्झयणाणि-१ अवादीद् वत्स ! सूर्योऽहं लग्नभक्तिवशात् तव । तुष्टो वरं वृणीष्वेह याचसे यद् ददामि तत् ॥१४॥ वराहः प्राञ्जलिः प्राह प्रसन्नोऽसि यदि प्रभो ! । कृत्वा मां स्वविमानस्थं ज्योतिश्चक्रं हि दर्शय ॥१५।। ततः स स्वविमानस्थस्तेनाभ्रे भ्रामितश्चिरम् । तत्सङ्क्रमितपीयूषतृप्तः क्षुत्-तृड्विवर्जितः ॥१६॥ स ज्योतिश्चारवेत्तृत्वगर्वितः पृथिवीं भ्रमन् । अहं वराहमिहिर इति ख्यापयति स्वकम् ॥१७॥ लोके पूजां परां प्राप जितशत्रुनृपेण सः । तद्गुणावजितेनोच्चैः पुरोधाः स्थापितः पुरे ॥१८॥
यत:
"गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः" ॥१॥ अथो वराहमिहिरो निनिन्देति मूनीश्वरान् । न हि किञ्चिद् विदन्त्येते कुचेला बालिशा इति ॥१९॥ श्रुत्वैतद् भूपमानादिदर्पसर्पगरुत्मतः । भद्रबाहुगुरून् श्राद्धा आह्वयामासिरे लघु ॥२०॥ ते भदन्ताः क्रमात् तत्र प्राप्ताः भक्त्या ववन्दिरे । सत्प्रवेशमहःपूर्वमहम्पूर्वकयाऽऽस्तिकैः ॥२१॥ तैः सुधादेश्यया वाण्या पौराः सन्तोषिताः समे । स्वकं कृतार्थयामासुर्वराहो मम्मिलवान् परम् ॥२२॥ इतश्च नन्दनो जज्ञे वराहस्य गृहेऽन्यदा । स तु स्वस्वव्ययेनालं व्यधात् तज्जननोत्सवम् ॥२३।। प्रभूतैः प्राभृतैर्लोकाः पूजयामासुरुच्चकैः । स चावग् मत्सुतो वर्षशतायुरिति संसदि ॥२४॥ बन्धुः स भद्रबाहुर्मे पुत्रजन्मोत्सवेऽपि हि । नागादिति बहिर्भूता व्यवहारात् सिताम्बराः ॥२५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org