________________
३६९
एकादशं बहुश्रुतपूजाख्यमध्ययनम्
यशोभद्रगुरोस्तत्र तौ चतुर्दशपूर्विणः । सम्बुद्धौ देशनां श्रुत्वा प्रव्रजतुरादरात् ॥३॥ भद्रबाहुरभूद् भद्रः स चतुर्दशपूर्ववित् । क्रमात् सूरिपदं प्राप षट्त्रिंशद्गुणसंयुतः ॥४॥ आवश्यकादिसिद्धान्तनियुक्तिदशकं व्यधात् । दशादीनां च सूत्राणि स्वनाम्ना संहितां च सः ॥५॥ पृथिव्यां विहरन् भव्याम्भोरुहोल्लासभास्करः । युगप्रधानागमेत्याख्यातो भुवि स पप्रथे ॥६॥ वराहस्तु मुनिः सूरिपदं प्रार्थयतेतराम् । भद्रबाहुरिति प्राह वत्स ! स्वच्छमते ! शृणु ।।७।। यद्यप्यशेषविद्यानां पारदृश्वाऽसि ते परम् । अहंयवे ददत् तच्च पापीयान् स्यां श्रुतं विदन् ॥८॥
यदाह
"ढो गणहरसद्दो गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते जाणंतो सो महापावो" ॥१॥ ततो व्रतं स तत्याज पुनर्भूदेववेषभृत् । मिथ्यादृष्टिरभूद् बाढं द्विषन् जैनेन्द्रशासनम् ॥९॥ व्रताधीतश्रुताभ्यासाज्ज्योतिःशास्त्रविशारदः । संहितादीनि शास्त्राणि नूत्नान्यरचयत् स तु ॥१०॥ लग्नाभ्यासे सदा लीन आस्ते स नगराद् बहिः । शिलातले लिखित्वा तदन्यदा गृहमागमत् ॥११॥ अस्वपीन्निशि सोऽस्मार्षीत् तदमृष्टं समुत्थितः । तत्र गत्वोपविष्टं च पञ्चास्यं दृष्टवान् किल ॥१२॥ ततः साहसमालम्ब्य तत्कुक्षेः पाणिना बलात् । स लग्नं मृष्टवान् यावत् तावत् सिंहोऽर्यमाऽभवत् ॥१३।।
१. व्यूढो गणधरशब्दो गौतमादिभिर्धारपुरुषैः ।
यस्तं स्थापयत्यपात्रे जानन् स महापापः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org