SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ एकादशं बहुश्रुतपूजाख्यमध्ययनम् ३६७ इत्यर्थः । न च मित्रेभ्यः कुप्यति कृतज्ञतया कथञ्चितया कथञ्चिदपराधेऽपीति । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते को भावो ? मित्रत्वेनाङ्गीकृतस्यापराधशतेष्वेकमपि तत्सुकृतं स्मरन् रहस्यपि न दोषं वक्ति । यदाह "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । न त्वेकदोषजनितो येषां कोपः स तु कृतघ्न" ॥१॥ कलहश्च वाग्विग्रहो डमरं च पाणिघातादिस्तद्वर्जको बुद्धो बुद्धिमानेतस्य सर्वत्रानुगमनानोक्तसङ्ख्यविरोधः । अभिजाति कुलीनतां गच्छति प्रतिज्ञानिर्वाहादिनेत्यभिजातिगः । हीमानकार्यमाचरन् लज्जते । प्रतिसंलीनो गुरुपार्वेऽन्यत्र वा कार्यं विना नेतस्ततश्चेष्टते स सुविनीत इत्युच्यते । इति गाथाचतुष्टयार्थः ॥१०-११-१२-१३॥ स च कीदृक् स्यादित्याह वसे गुरुकुले निच्चं जोगवं उवहाणवं । पियंकरे पियंवाई से सिक्खं लद्भुमरिहई ॥१४॥ व्याख्या-वसेदासीत गुरुकुले नित्यं सदा गुर्वाज्ञायामेव तिष्ठेत् । योगोऽर्थाद् धर्मव्यापारस्तद्वान् । उपधानमङ्गानङ्गादावाचाम्लादितपोविशेषस्तद्वान् । प्रियङ्करः केनचिदपकृतोऽपि तत्प्रियमेव चेष्टते मम कर्मणोऽयं दोष इति भावयन् । यतः "अपकारिणि कोपश्चेत कोपे कोपः कथं न ते? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि" ॥१॥ तथा प्रियवादी कदाचित् केनचिदप्रियमुक्तोऽपि प्रियमेव वदति । यदाह "सिक्खह पियाई वुत्तुं सव्वो तूसइ पियं भणंताणं । किं कोइलाहि दिन्नं किं व हियं कस्स काएहिं" ॥१॥ स एवं गुणवान् शिक्षा शास्त्रार्थग्रहणात्मिकां लब्धं प्राप्तुमर्हति योग्यो भवत्येतद्विपरीतस्त्वविनीतः शिक्षा लब्धं नाहतीत्यर्थादुक्तं स्यात् । ततश्च यः शिक्षां लभते स बहुश्रुत इति भावः ॥१४॥ बहुश्रुतप्रतिपत्तिरूपमाचारं स्तवद्वारेणाह जहा संखंमि पयं निहितं दुहओ वि विरायई । एवं बहुस्सुए भिक्खू धम्मो कित्ती तहा सुयं ॥१५॥ १. शिक्षध्वं पिक्या वृत्तं सर्वस्तुष्यति प्रियं भणताम् । किं कोकिलाभिर्दत्तं किं वा हतं कस्य काकैः ? ॥१॥ सिव Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy