________________
एकादशं बहुश्रुतपूजाख्यमध्ययनम्
३६७ इत्यर्थः । न च मित्रेभ्यः कुप्यति कृतज्ञतया कथञ्चितया कथञ्चिदपराधेऽपीति । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते को भावो ? मित्रत्वेनाङ्गीकृतस्यापराधशतेष्वेकमपि तत्सुकृतं स्मरन् रहस्यपि न दोषं वक्ति । यदाह
"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः ।
न त्वेकदोषजनितो येषां कोपः स तु कृतघ्न" ॥१॥ कलहश्च वाग्विग्रहो डमरं च पाणिघातादिस्तद्वर्जको बुद्धो बुद्धिमानेतस्य सर्वत्रानुगमनानोक्तसङ्ख्यविरोधः । अभिजाति कुलीनतां गच्छति प्रतिज्ञानिर्वाहादिनेत्यभिजातिगः । हीमानकार्यमाचरन् लज्जते । प्रतिसंलीनो गुरुपार्वेऽन्यत्र वा कार्यं विना नेतस्ततश्चेष्टते स सुविनीत इत्युच्यते । इति गाथाचतुष्टयार्थः ॥१०-११-१२-१३॥ स च कीदृक् स्यादित्याह
वसे गुरुकुले निच्चं जोगवं उवहाणवं ।
पियंकरे पियंवाई से सिक्खं लद्भुमरिहई ॥१४॥ व्याख्या-वसेदासीत गुरुकुले नित्यं सदा गुर्वाज्ञायामेव तिष्ठेत् । योगोऽर्थाद् धर्मव्यापारस्तद्वान् । उपधानमङ्गानङ्गादावाचाम्लादितपोविशेषस्तद्वान् । प्रियङ्करः केनचिदपकृतोऽपि तत्प्रियमेव चेष्टते मम कर्मणोऽयं दोष इति भावयन् । यतः
"अपकारिणि कोपश्चेत कोपे कोपः कथं न ते? ।
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि" ॥१॥ तथा प्रियवादी कदाचित् केनचिदप्रियमुक्तोऽपि प्रियमेव वदति । यदाह
"सिक्खह पियाई वुत्तुं सव्वो तूसइ पियं भणंताणं ।
किं कोइलाहि दिन्नं किं व हियं कस्स काएहिं" ॥१॥ स एवं गुणवान् शिक्षा शास्त्रार्थग्रहणात्मिकां लब्धं प्राप्तुमर्हति योग्यो भवत्येतद्विपरीतस्त्वविनीतः शिक्षा लब्धं नाहतीत्यर्थादुक्तं स्यात् । ततश्च यः शिक्षां लभते स बहुश्रुत इति भावः ॥१४॥ बहुश्रुतप्रतिपत्तिरूपमाचारं स्तवद्वारेणाह
जहा संखंमि पयं निहितं दुहओ वि विरायई ।
एवं बहुस्सुए भिक्खू धम्मो कित्ती तहा सुयं ॥१५॥ १. शिक्षध्वं पिक्या वृत्तं सर्वस्तुष्यति प्रियं भणताम् ।
किं कोकिलाभिर्दत्तं किं वा हतं कस्य काकैः ? ॥१॥
सिव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org