________________
एकादशं बहुश्रुतपूजाख्यमध्ययनम्
३६५ बहुश्रुतत्वहेतूनाह
अह अट्टहिं ठाणेहि सिक्खासीलि त्ति वुच्चई । अहस्सिरे सया दंते न य मम्ममुदाहरे ॥४॥ नासीले न विसीले न सिया अइलोलुए ।
अकोहणे सच्चरए सिक्खासीले त्ति वुच्चई ॥५॥ अनयोक्ख्या-अथाष्टभिः स्थानैः शिक्षां शीलयत्यभ्यस्यतीति शिक्षाशील इत्युच्यतेऽहंदादिभिरिति गम्यम् । तान्येवाह-'अहस्सिरे'त्ति अहसनशीलः सहेतुकमहेतुकं वा न हसति । सदा दान्त इन्द्रियनोइन्द्रियदमवान् । न च मर्म कुत्सितजात्यायुदाहरेदुद्घट्टयेत् । नाशीलो न सर्वथा शीलविकलो न विशीलो न विरूपाचारो न स्यादतिलोलुपो रसलम्पटोऽक्रोधनः क्षमी । सत्यरतोऽवितथभाषी शिक्षाशील इत्युच्यते । स चेदृशो बहुश्रुत एवेति भाव इति गाथाद्वयार्थः ॥४-५॥ अथाबहुश्रुतत्वहेत्वविनीतस्वरूपमाह
अह चउदसहि ठाणेहिं वट्टमाणे उ संजए । अविणीए वुच्चई सो उ निव्वाणं च न गच्छइ ॥६॥ अभिक्खणं कोही हवइ पबंधं च पकुव्वई । मित्तिज्जमाणो वमइ सुयं लभ्रूण मज्जई ॥७॥ अवि पावपरिक्खेवी अवि मित्तेसु कुप्पई । सुप्पियस्सावि मित्तस्स रहे भासइ पावगं ॥८॥ पइन्नवाई दुहिले थद्धे लुद्धे अणिग्गहे ।
असंविभागी अवियत्ते अविणीए त्ति वुच्चई ॥९॥ आसां व्याख्या-अथ चतुर्दशसु स्थानेषु 'सप्तम्यर्थे तृतीया' वर्तमानस्तु संयतोऽविनीत उच्यते । स त्वविनीतो निर्वाणं मोक्षं चशब्दादिहैव ज्ञानादींश्च न गच्छति न प्राप्नोति । स्थानान्येवाह-अभीक्ष्णं पुनः पुनः क्रोधी भवति, प्रबन्धं च कोपस्यैवाविच्छेदात्मकं प्रकुरुते कुपितः सन् मृदुवाग्भिरपि न शाम्यतीत्यर्थः, 'मित्तिज्जमाणो'त्ति मित्रीय्यमाणोऽपि मित्रं ममायमस्त्वितीष्यमाणोऽपि वमति त्यजति मित्रीयितारं मैत्र्यं वा प्रत्युपकारभीरुतया कृतघ्नतया वेति, 'अपेर्गम्यत्वात्' श्रुतमपि लब्ध्वा माद्यति । 'अपिः सम्भावनायां' सम्भाव्यत एतद् यथाऽसौ पापैः कथञ्चित् समित्यादिषु स्खलितरूपैः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org