SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ एकादशं बहुश्रुतपूजाख्यमध्ययनम् अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते-इह प्रागध्ययने अप्रमादार्थमनुशासनमुक्तम्, तच्च विवेकवतः । स च बहुश्रुतपूजातः स्यादिति बहुश्रुतपूजासूचकस्यास्याध्ययनस्यादिसूत्रमाह संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि आणुपुचि सुणेह मे ॥१॥ व्याख्या संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोराचारमुचितक्रियाविनयरूपं प्रक्रमाद् बहुश्रुतपूजात्मकं प्रादुःकरिष्याम्यानुपूर्व्या शृणुत 'मे' मम 'कथयत इति शेषः' ॥१॥ बहुश्रुतस्वरूपपरिज्ञानं तद्विपर्ययज्ञानेन स्यादतः पूर्वं तत्स्वरूपमाह जे यावि होइ निव्विज्जे थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई अविणीए अबहुस्सुए ॥२॥ व्याख्या-यः कश्चिच्चापिशब्दावुत्तरत्र योक्ष्येते । भवति निर्विद्यः शास्त्रावबोधरहितः । सविद्योऽपि यः स्तब्धोऽहङ्कारी लुब्धो रसादिगृद्धिमान् । अनिग्रहोऽर्थादिन्द्रियाणामस्येत्यनिग्रहः । अभीक्ष्णं पुनः पुनरुत् प्राबल्येनासम्बद्धत्वादिना लपति वक्त्युल्लपति। अविनीतश्च सोऽबहुश्रुत उच्यते । सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावः । एतद्विपरीतोऽर्थाद् बहुश्रुत इति ॥२॥ अबहुश्रुतत्वहेतूनाह अहं पंचहिं ठाणेहिं जेहिं सिक्खा न लब्भई । थंभा कोहा पमाएणं रोगेणालस्सएण य ॥३॥ व्याख्या-'अथेत्युपन्यासे' पञ्चभिः स्थानैः प्रकारैर्यैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरबहुश्रुतत्वमवाप्यते इति शेषः । कैरित्याह-स्तम्भान्मानात्, क्रोधात्, प्रमादेन मद्यादिना, रोगेन कुष्ठादिना, आलस्येनानुत्यासहरूपेण चेति ॥३॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy