________________
३६१
दशमं द्रुमपत्रीयमध्ययनम् दर्शनशुद्धिमाह
न हु जिणे अज्ज दीसई बहुमए दीसई मग्गदेसिए ।
संपइ नेयाउए पहे समयं गोयम ! मा पमायए ॥३१॥ व्याख्या-नैव जिनोऽद्यास्मिन् काले दृश्यते यद्यपीति गम्यते । तथापि 'बहुमए'त्ति बहुमतः पन्थाः स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरत्नत्रयात्मको मुक्तिमार्ग इह तु भावमार्गेणाधिकारः । दृश्यते उपलभ्यते 'मग्गदेसिय' त्ति भावप्रधानत्वान्निर्देशस्य मार्गत्वेनार्थान्मुक्तेर्देशितो जिनैः कथितो मार्गदेशितो न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना स्यादित्यसन्दिग्धचेतसो भाविनो भव्या न प्रमादं करिष्यन्तीत्यतः सम्प्रति सत्यपि मयीति भावः नैयायिके निश्चितमुक्त्याख्यलाभप्रयोजने पथि केवलानुत्पत्तिसंशयविधानेन गौतम ! मा प्रमादी: ॥३१॥ पुनरुपदिशन्नाह
अवसोहिय कंटयापहं उत्तिण्णो सि पहं महालयं ।
गच्छसि मग्गं विसोहिया समयं गोयम ! मा पमायए ॥३२॥ व्याख्या-अवशोध्य परिहत्याकारोऽलाक्षणिकः कण्टकानां द्रव्यतो बुब्बूलकण्टकादीनां, भावतस्तु चरकादिकुश्रुतीनां पन्था मार्गः कण्टकपथस्तम् । ततश्चावतीर्णोऽस्यनुप्रविष्टोऽसि पन्थानं 'महालयं' ति महान्तं भावमार्गमर्हदाद्याश्रितसम्यग्दर्शनादिरूपम् । अथ च गच्छसि मार्ग न पुनरवस्थित एवासि सम्यग्दर्शनाद्यनुपालनेन मुक्तिमार्गगमनप्रवृत्तत्वाद् भवतः कथं ? विशोध्य निश्चित्य तदेवं प्रवृत्तः सन् मा प्रमादीः ॥३२॥ मार्गप्रतिपत्तावपि कस्यचिदनुतापः स्यात्, तन्निराकुर्वन्नाह
अबले जह भारवाहए मा मग्गे विसमे वगाहिया ।
पच्छा पच्छाणुतावए समयं गोयम ! मा पमायए ॥३३॥ व्याख्या-अबलो देहसमार्थ्यविकलो यथा भारवाहकोऽबलभारवाहक इवेत्यर्थः । मा मार्ग विषमं मन्दसत्त्वैर्दुस्तरमवगाह्य प्रविश्य त्यक्ताङ्गीकृतभारः । पश्चादनन्तरं पश्चात्तापकृद् भूरिति शेषः । को भावो ? यथा कश्चिद् देशान्तरात् सुवर्णाद्युपाय॑ गृहमागच्छन्नतिभयाद् वस्त्वन्तर्हितं तद्धेमाद्यानयन् क्वचिदुपलाद्याकुले पथि स्खलन्नहो ! भारेणाक्रान्तोऽहमिति तत् त्यक्त्वा स्वगृहमागतो नि:स्वतयाऽनुतप्यते किं मया मन्दभाग्येन तत् त्यक्तमित्येवं प्रमादपरतया त्यक्तसंयमभारस्तथा त्वं मा भूः, किन्तु समयमित्यादि पूर्ववत् ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org