________________
उत्तरज्झयणाणि - १
व्याख्या — अरतिर्वातादिजन्यश्चित्तोद्वेगो गण्डं गडुर्विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिरोगा विविधा नानाप्रकाराः स्पृशन्ति 'ते' तव शरीरकमिति गम्यम् । ततश्च विपतति विशेषेण बलोपचयादपैति विध्वंसति जीवमुक्तं चाधः पतति 'ते' तव शरीरकमतः समयं प्राग्वत् । यद्यपि केशपाण्डुरतादि गौतमे न सम्भवति, तथापि तन्निश्रयाऽशेषशिष्यबोधनार्थत्वाददोष इति ॥२७॥
अप्रमादकर्तव्यतामाह
वोच्छिंद सिणेहमप्पणो कुमुयं सारइयं व पाणियं ।
से सव्वसिणेहवज्जिए समयं गोयम ! मा पमाय ॥ २८ ॥
३६०
व्याख्या - विशेषेणोत्प्राबल्येन छिन्धि अपनय स्नेहमात्मनः कुमुदमिव चन्द्रविकास्युत्पलमिव, शारदं शरत्कालभवं पानीयं यथा तदादौ जलमग्नमपि जलमपहाय वर्तते, तथा त्वमपि चिरसंसृष्टं मद्विषयं स्नेहमपनयापनीय च 'से' इत्यथ सर्वस्नेहवर्जितः सन् समयं ० शारदपदोपादानेनैतज्जलस्येव स्नेहस्याप्यतिमनोहरत्वं ख्यापितमिति ॥ २८ ॥
किञ्च—
चिच्चा ण धणं च भारियं पव्वइओ हि सि अणगारियं । मावतं पुणो वि आइए समयं गोयम ! मा पमाय ॥२९॥
व्याख्या- - त्यक्त्वा परित्यज्य 'णेत्यलङ्कारे' धनं चतुष्पदादि भार्यां च प्रव्रजितः प्रतिपन्नो हिर्यस्मादसीति सूत्रत्वादकारलोपादसि त्वं अनगाराणामिदमानगारिकमनुष्ठानमतो मा वान्तमुद्गीर्णमापिब किन्तु समयमित्यादि पूर्ववत् ॥ २९ ॥
कथं वान्ताऽऽपानं न स्यादित्याह —
अवउज्झिय मित्त- बंधवं विउलं चेव धणोहसंचयं । मा तं बिइयं गवेसए समयं गोयम ! मा पमाय ॥३०॥
व्याख्या— अपोह्य त्यक्त्वा मित्राणि च बान्धवांश्च समाहारे मित्रबान्धवं विपुलं 'चैवेति समुच्चयपूरणे' धनस्य हेमादेर्द्रव्यस्यौघः समूहस्तस्य सञ्चयो राशीकरणं धनौघसञ्चयस्तं च मा तन्मित्रादिकं द्वितीयं 'पुनर्ग्रहणार्थमिति गम्यम्' गवेषय मा भूस्तदभिष्वङ्गवान् । त्यक्तं हि वान्तोपमं तदभिष्वङ्गश्च वान्तापानप्राय इति भावः । किन्तु समयमपीत्यादि प्राग्वत् ॥३०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org