________________
३६२
अथोत्साहार्थमाह
तिन्नो हु सि अण्णवं महं किं पुण चिट्ठसि तीरमागओ । अभितर पारं गमित्त समयं गोयम ! मा पमाय ॥३४॥
उत्तरज्झयणाणि - १
I
व्याख्या -तीर्ण एव 'हुरेवार्थे' ऽसि त्वमर्णवमिवार्णवं महान्तम् । किं पुनस्तिष्ठसि ? तीरमागतः पारं प्राप्त: ? । भवः कर्म वा भावार्णवस्त्वया द्विविधोऽप्युत्तीर्णप्राय एवेति नौदासीन्यं तवोचितमित्याशयः । किन्तु 'अभितुर' त्ति अभ्याभिमुख्येन त्वरस्व शीघ्रो भव पारमर्थान्मुक्तिपदं 'गमित्त ' त्ति गन्तुं समयमित्यादि प्राग्वत् ||३४||
अप्रमादस्य किं फलमित्याह—
अकलेवरसेणिमुस्सिया सिद्धि गोयम ! लोयं गच्छसि । खेमं च सिवं अणुत्तरं समयं गोयम ! मा पमाय ॥३५॥
व्याख्या - अकडेवराः सिद्धास्तेषां श्रेणिः शुभपरिणामरूपा क्षपक श्रेणिरित्यर्थः । उच्छ्रित्योत्तरोत्तरसंयमस्थानावाप्त्योच्छ्रितामिव कृत्वा सिद्धिनामानं लोकं गौतम ! गच्छसि गमिष्यसि । क्षेमं च परचक्राद्युपद्रवरहितं शिवं सर्वदुरितोपशमेनानुत्तरं सर्वोत्कृष्टमतः समयमपि गौतम ! मा प्रमादीः ||३५||
निगमयन्नुपदेशसर्वस्वमाह—
बुद्धे परिनिव्वुडे चरे गामगए नगरे व संजए ।
संतिमग्गं च वूहए समयं गोयम ! मा पमाय ॥ ३६ ॥
व्याख्या — बुद्धो ज्ञाततत्त्वः परिनिर्वृतः कषायाग्निशमेन शीतीभूतश्चरेरासेवस्व संयममिति शेषः । किम्भूतो ? ग्रामगतो नगरे वोपलक्षणादरण्यादिषु वा स्थितः । सर्वस्मिन्ननभिष्वङ्गवानिति भावः । संयतः साधुः शान्तिरुपशमः सैव मुक्तिहेतुतया मार्गस्तं बृंहयेर्भव्याङ्गिप्ररूपणया वृद्धि नयेस्ततः समयमपि गौतम ! मा प्रमादीरिति
॥३६॥
इत्यमर्हदुक्तं श्रुत्वा गौतमो यदकार्षीत्, तदाह
बुद्धस्स निसम्म भासियं सुकहितमट्ठपओवसोहियं । रागं दोसं च छिंदिया सिद्धिगई गए गोयमे ॥ ३७ ॥ त्ति बेमि ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org