________________
३५७
दशमं द्रुमपत्रीयमध्ययनम्
चउरिदियकायमइगओ उक्कोसं जीवो उ संवसे ।
कालं संखिज्जसन्नियं समयं गोयम ! मा पमायए ॥१२॥ एते अपि गाथे पूर्ववद् भावनीये ॥११-१२॥
पंचिंदियकायमइगओ उक्कोसं जीवो उ संवसे ।
सत्तट्ठभवग्गहणे समयं गोयम ! मा पमायए ॥१३॥ व्याख्या–पञ्चेन्द्रिया मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वाद् देवनारकयोश्चोत्तरत्रोक्तत्वात् तिर्यञ्च एवात्र गृह्यन्ते । तत्कायमतिगतस्तत्कायोत्पन्न उत्कर्षतः सप्ताष्टभवग्रहणान्यतः समयमित्यादि स्पष्टम् ।।१३।।
देवे नेरइये अइगओ उक्कोसं जीवो उ संवसे ।
इक्किक्कभवग्गहणे समयं गोयम ! मा पमायए ॥१४॥ व्याख्या-देवान् नैरयिकांश्चातिगत उत्कर्षतो जीवस्तु संवसेदेकैकभवग्रहणम् । ततः परमवश्यं नरेषु तिर्यक्षु चोत्पादात् । अतः समयमित्यादि प्राग्वदिति ॥१४॥ उक्तार्थमुपसंहर्तुमाह--
एवं भवसंसारे संसरइ सुहासुहेहिं कम्मेहिं ।
जीवो पमायबहुलो समयं गोयम ! मा पमायए ॥१५॥ व्याख्या-एवमुक्तप्रकारेण पृथ्व्यादिकायस्थितिलक्षणेन प्रकारेण भवा एव तिर्यगादिजन्मात्मकाः संस्रियमाणत्वात् संसारो भवसंसारस्तस्मिन् संसरति पर्यटति शुभाशुभैः कर्मभिः पृथ्व्यादिभवहेतुभिर्जीवः प्रमादैः पञ्चभिरष्टभिर्वा बहुलो व्याप्तोऽतः समयमित्यादि स्पष्टम् ॥१५॥ एवं मनुजत्वावाप्तावप्युत्तरोत्तरगुणावाप्तिर्दुर्लभैवेत्याह
लभ्रूण वि माणुसत्तणं आयरियत्तं पुणरावि दुल्लभं ।
बहवे दसुया मिलक्खुया समयं गोयम ! मा पमायए ॥१६॥ व्याख्या-लब्ध्वाऽपि मानुषत्वमतिदुर्लभमेव कथञ्चिदार्यत्वं मगधाद्यार्यदेशोत्पत्तिलक्षणम् । पुनरप्याकारोऽत्रालाक्षणिकः । दुर्लभं कुत इत्याह-यतो बहवो दस्यवश्चौराः 'मिलक्खुय'त्ति म्लेच्छा अव्यक्तवाचस्ते च शक-यवनादिदेशोद्भवा येषु मनुजत्वमवाप्यापि जन्तवो धर्माधर्मभक्ष्यादिव्यवहाराबाह्यास्तिर्यक्प्राया एवेति शेषं व्याख्यातम् ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org