________________
३५५
दशमं द्रुमपत्रीयमध्ययनम् तदेवं जीवित-यौवनयोरनित्यत्वमिति भावः ॥१॥ पुनरायुषोऽनित्यत्वमाह
कुसग्गे जह उसबिंदुए थोवं चिट्ठइ लंबमाणए ।
एवं मणुयाण जीवियं समयं गोयम ! मा पमायए ॥२॥ व्याख्या-कुशो दर्भस्तस्याग्रं प्रान्तस्तस्मिन् यथाऽवश्यायबिन्दुः स्त्यानोदबिन्दुः स्तोकमल्पकालं तिष्ठत्यास्ते लम्बमानक एवं मनुजानां जीवितमतः समयमपि गौतम ! मा प्रमादीः ॥२॥ अमुमेवार्थमुपसंहर्तुमाह
इइ इत्तरियंमि आउए जीवियए बहुपच्चवायए ।
विहुणाहि रयं पुरे कडं समयं गोयम ! मा पमायए ॥३॥ व्याख्या—इतीत्युक्तन्यायेनेत्वरे स्वल्पकालभाविन्यायुषि जीवितकेऽर्थात् सोपक्रमायुषि बहवः प्रत्यपाया उपघातहेतवोऽध्यवसानादयो यस्मिंस्तत् तथा तस्मिन् एवं दृष्टान्तद्वयेनायुषोऽनित्यतां मत्वा विधुनीहि जीवात् पृथक् कुरु रजः कर्म पुरा कृतं पूर्वविहितं समयमित्यादि प्राग्वत् ॥३॥ स्यात्, पुनर्नरत्वावाप्तावुद्यस्याम इत्याह
दुल्लहे खलु माणुसे भवे चिरकालेण वि सव्वपाणिणं ।
गाढा य विवाग कम्मुणो समयं गोयम ! मा पमायए ॥४॥ व्याख्या-दुर्लभः खलुरकृतसुकृतानामिति विशेषद्योतको मानुषो भवश्चिरकालेनापि बहुकालेनाप्यास्तामल्पकालेन सर्वप्राणिनाम् । किमित्यत आह-गाढा नाशयितुमशक्यतया दृढाश्च इति यतो विपाका उदयाः कर्मणां मनुजगतिविघातिप्रकृतिरूपाणामतः समयमपीत्यादि प्राग्वत् ॥४॥ कथं पुनस्तद् दुर्लभमिति सर्वजीवानां कायस्थितिमाह
पुढविकायमइगओ उक्कोसं जीवो उ संवसे । कालं संखाईयं समयं गोयम ! मा पमायए ॥५॥ आउक्कायमइगओ उक्कोसं जीवो उ संवसे । कालं संखाईयं समयं गोयम ! मा पमायए ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org