SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५२ गौतमोऽपि प्रगे प्रत्यवरोहंस्तापसैः श्रितः । गुरुत्वेनानुजग्राह दीक्षादानेन तानथ ||६७|| प्रतिष्ठध्वं जगन्नाथस्त्रिलोकीगौरवास्पदम् । वन्द्यतेऽदः समाकर्ण्य विस्मितास्ते तमूचिरे ॥६८॥ निष्कलङ्कैर्गुणैर्यो हि भवद्भ्योऽप्यतिरिच्यते । स कोऽस्तीति ततोऽकार्षीद् गौतमो वीरवर्णनम् ॥६९॥ "सर्वज्ञः सर्वदर्शी स विश्वातिक्रान्तरूपवान् । किङ्करीयन्नरामर्त्यनागविद्याधरेश्वरः ॥७०॥ रत्नसिंहासनासीनः सर्वातिशयभासुरः । सुरेश्वरधृतच्छत्रवीज्यमानप्रकीर्णकः ॥७१॥ स्वर्ण- दुर्वर्ण-रत्नोरुत्रिवप्रान्तश्चतुर्मुखः । योगातिशयसम्प्राप्तपरमर्द्धिर्महामुनिः ॥७२॥ द्विगव्यूतानुगामिन्या वाण्या सत्तत्त्वमादिशन् । वीरो विजयते चम्पापुर्यां विश्वैकवल्लभः ॥ ७३ ॥ यद्वन्दनेन यद्वाक्यश्रवणेनैव लीयते । परात्मनि मनः साम्यं विश्वे तस्य भजेत कः ? " //७४ // पञ्चभिः कुलकम् अस्माकं वः स च गुरुः श्रुत्वेत्येते परं मुदम् । आप्य सम्यक्त्व- चारित्रदार्ह्यभाजोऽभवंस्तराम् ॥७५॥ देवताऽऽनीतलिङ्गास्तेऽनुजग्मुर्गौतमं प्रभुः । पप्रच्छ भैक्षसमये का पिपारयिषाऽस्ति वः ? ॥ ७६ ॥ उत्तरज्झयणाणि - १ पायसेनेति तैरुक्ते गुरुरेष पतद्ग्रहम् । भृत्वा कुतश्चित् कौटम्बिगृहात् तेन त्वराऽऽनयत् ॥७७॥ तानानुपूर्व्याऽवस्थाप्य ससर्पिर्गुडपायसम् । आकण्ठं भोजयामास स्वाम्यक्षीणमहानसः ॥७८॥ तदा सेवालवर्गस्य कवलीकुर्वतस्तराम् । परमान्नं मनस्यासीत् परमोऽयं शुभाशयः ॥ ७९॥ अहो ! जाग्रति पुण्यानि विशिष्टविशदानि नः । यदनेन समर्थेन गुरुणाऽभूत् समागमः ॥८०॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy