________________
३४८
एकादशाङ्गपारीणौ तावभूतां महामुनी । भुवं विहृत्य वीरोऽपि चम्पामनुययौ क्रमात् ॥१०॥ पृष्टिचम्पामनुज्ञातौ श्रीवीरेणाथ गौतमम् । तावयातां पुरस्कृत्य स्वस्रादिप्रतिबुद्धये ॥११॥ पिठराद्यास्तदोद्यानमागत्य मुनिभूषितम् । नत्वा तान् गौतमीं वाचमित्यशृण्वन् सुधाविधाम् ॥१२॥ "नानादुःखजलाकीर्णः प्रपञ्चोऽयं भवोदधेः । ये न त्वरन्ति निर्गन्तुमस्मात् तेषां क्व चेतना ? ॥१३॥ सुप्रापा एव हि प्रायो विभुत्वविभा भवे । धर्मसाधनसामग्री कृच्छ्रप्राप्यैव केवलम् ॥१४॥ सम्यगादृतधर्माणां तत्प्राप्तिः सफला भवेत् । निष्फलैवान्यथा सा स्यात् स्त्रीजन्मेव सुतं विना ॥ १५ ॥ साम्राज्यमदिरोन्मत्ता आदाय निबिडं रजः । अधः पतन्ति तद्भारादम्बुधौ लोहपोतवत्" ॥१६॥ इति व्याख्यानमाकर्ण्य प्रबोध्य जनकावपि । गागलिर्गौतमाद् दीक्षां तद्युक्तः समुपाददे ||१७|| गागलेर्ज्येष्ठपुत्रस्तु तत्पुरेशस्ततोऽभवत् । गौतमोऽप्यनुचम्पं तत्पञ्चयुक्तोऽचलद् गुरुः ॥ १८॥ तदा शाल- महाशालयोरभूत् पथि गच्छतोः । तेषां प्रबोधसम्पत्तिशुभध्यानेन केवलम् ॥१९॥ प्रागस्मभ्यमदाय्याभ्यां प्राज्यं राज्यं ततो व्रतम् । द्विधाऽपि तदुपकारीत्यध्यायन् पिठरादयः ॥ २०॥ प्रापुश्च केवलज्ञानमेतैर्युक्तोऽथ गौतमः । गत्वा प्रदक्षिणीकृत्य चम्पोद्यानेऽनमज्जिनम् ॥२१॥ आह वीरमनत्वा तान् यातः केवलिसंसदम् । माऽऽशातयत सर्वज्ञं वन्दध्वमिति गौतमः ||२२|| अथो वाचमुवाचैवं जिनोऽमून् केवलस्पृशः । मा मा वन्दध्वमित्याख्योऽवज्ञा केवलिनां ह्यसौ ||२३||
Jain Education International 2010_02
उत्तरज्झयणाणि - १
For Private & Personal Use Only
www.jainelibrary.org