SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ दशमं द्रुमपत्रीयमध्ययनम् इहानन्तराध्ययने चरणं प्रति निष्कम्पत्वमुक्तम्, तच्चानुशासनादेव स्यादित्युपमयाऽनुशासनाभिधायकस्यास्याध्ययनस्य प्रस्तावनार्थं गौतमं प्रति श्रीवीर उपदिष्टवानित्यादौ गौतमवक्तव्यतोच्यते भूपालः पृष्टिचम्पायां शालो नाम विशालधीः । युवराजो महाशालस्तयोर्भग्नी यशोमती ॥१॥ सा च काम्पिल्यभूभर्तुः पिठरस्य प्रियाऽभवत् । अन्यदा विहरंस्तत्र श्रीवीरः समवासरत् ॥२॥ शालाद्या वन्दितुं जग्मुर्धर्मश्च दिदिशेऽर्हता । वर्णिता मनुजत्वादि-सामग्री दुर्लभा परम् ।।३।। प्ररूपिताः प्रमादाद्याः कर्मबन्धैकहेतवः । उपदिष्टं महारम्भप्रमुखं श्वभ्रकारणम् ॥४॥ दर्शितं भवनैर्गुण्यं दुर्गतिश्च कषायिणाम् । सम्यचिद्-व्रत-दृष्टीनां ज्ञापिता मोक्षमार्गता ॥५॥ नृपः शालोऽथ संविग्नः समाख्यात् सोदरं मुदा । साम्राज्यभारमादत्स्व यथाऽहं संयमं श्रये ॥६॥ महाशालोऽप्यदः प्रोचे नाग्नेः को निर्यियासति ? । यूयमेव प्रमाणं मे तद् व्रतेऽपि गृहेष्विव ॥७॥ महारम्भैकमूलेन महामोहैकहेतुना ।। विवेकप्रतिपक्षेण महाराज्येन मे कृतम् ॥८॥ अथ गागलिमाह्वाय काम्पील्याद् भगिनीसुतम् । राज्ये निवेश्य सभ्रातोपादत्त चरणं नृपः ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy