SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३४६ उत्तरज्झयणाणि-१ व्याख्या-नमिर्नमयति स्वतत्त्वभावनया प्रह्वीकरोत्यात्मानं न तूत्सेकं नयति । उक्तञ्च "संतगुणकित्तणेण वि पुरिसा लज्जंति जे महासत्ता । इयरे पुण अलियपसंसणे वि हियए न मायन्ति" ॥१॥ किम्भूतः ? साक्षाच्छक्रेण चोदितः प्रेरितः । त्यक्त्वा गेहं 'वेदेहित्ति सूत्रत्वात् विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहदेशाधिपः श्रामण्ये चारित्रभावे पर्युपस्थित उद्यतोऽभूदिति शेषः ॥६१॥ किमयमेवैवंविध उतान्येऽपीत्याह एवं करिति संबुद्धा पंडिया पवियक्खणा । विणियटुंति भोगेसु जहा से नमी रायरिसि ॥६२॥ त्ति बेमि ॥ व्याख्या-एवमिति यथा तेन नमिना निश्चलत्वं कृतम्, तथाऽन्येऽपि कुर्वन्ति ये ईदृशा दृढसत्त्वभाजो भवन्ति । कीदृशाः ? सम्बुद्धा ज्ञातजीवादितत्त्वाः, पण्डिता मोक्षानुगामिधीमन्तः, प्रविचक्षणाः क्रियां प्रति प्रवीणाः । तथाविधाश्च किं विदधति ? विनिवर्तन्ते उपरमन्ति भोगेभ्यो यथा स नमी राजर्षिस्तेभ्यो निवृत्तः ॥ इति ब्रवीमीति प्राग्वत् ॥६२।। ग्रं० ८५६-२६।। इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां नवमं नमिप्रव्रज्याख्यमध्ययनं समाप्तम् ॥९॥ १. सद्गुणकीर्तनेनापि पुरुषा लज्जन्ते ये महासत्त्वाः । इतरे पुनरलीकप्रशंसनेऽपि हृदये न मान्ति ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy