________________
३४४
उत्तरज्झयणाणि-१ सल्लं कामा विसं कामा कामा आसीविसोवमा ।
कामे पत्थेमाणा अकामा जंति दुग्गइं ॥५३॥
व्याख्या-शरीरान्त:प्रविष्टमयःशल्यमिव शल्यं कामाः, बाधाविधायित्वात् । विषमिव विषं [कामाः] मुखमधुरायतिदारुणत्वात् । आश्यो दंष्ट्रास्तासु विषमस्येत्याशीविषः सर्पस्तदुपमाः कामाः । यथा ह्ययं स्फुरन्मणिफणामण्डितः शोभन इव दृश्यते, स्पृष्टश्च विनाशाय स्यात् तथैतेऽपि । किञ्च कामान् शब्दादीन् प्रार्थयमाना अप्यकामा इष्यमाणकामाप्राप्त्या यान्ति दुर्गतिमिति ॥५३।।
कथमित्याह
अहे वयइ कोहेणं माणेणं अहमा गई । मायागइपडिग्घाओ लोहाओ दुहओ भयं ॥५४॥
व्याख्या-अधो नरके व्रजति क्रोधेन, मानेनाधमा गतिः, मायया गतेस्र्थात् सुगतेः प्रतिघातो विनाशः, लोभाद् द्विधा ऐहिकं पारत्रिकं च भयं 'भवती'ति सर्वत्र योज्यम् । कामप्रार्थने ह्यवश्यम्भाविनः क्रोधादयस्ते चेदृशास्ततस्तत्प्रार्थने कथं न दुर्गतिः ? इति ॥५४॥
एवं क्षोभयितुमशक्त इन्द्रः किमकरोदित्याह
अवउज्झिऊण माहणरूवं विउव्विऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहि महुराहिं वग्गूहि ॥५५॥
व्याख्या-अपोह्य त्यक्त्वा ब्राह्मणरूपं 'विउव्विऊण'त्ति विकृत्येन्द्रत्वमुत्तरवैक्रियरूपं वन्दतेऽभिष्टवन् स्तुतिं कुर्वन्नाभिर्वक्ष्यमाणाभिर्मधुराभिर्वाग्भिर्वाणीभिः ॥५५॥
स्तुतिमेवाहअहो ! ते निज्जिओ कोहो अहो ! ते माणो पराजिओ । अहो ! ते निरक्किा माया अहो ! ते लोहो वसीकओ ॥५६॥ अहो ! ते अज्जवं साहू अहो ! ते साहु मद्दवं । अहो ! ते उत्तमा खंती ! अहो ते मुत्ति उत्तमा ॥५७॥
अनयोाख्या-अहो ! इति विस्मये 'ते' त्वयेति सर्वत्र योज्यम् । निर्जितः क्रोधो यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुब्धः । तथा मानः पराजितो यतस्त्वं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org |