________________
नवमं नमिप्रव्रज्याख्यमध्ययनम्
३४३ व्याख्या-सुवर्ण-रूप्यस्य पर्वताः पर्वतप्रमाणा राशयो भवेयुः स्यात् कदाचित् 'हुरेवार्थे' कैलाससमा मेरुतुल्या एवासङ्ख्यकाः । नरस्य लुब्धस्योपलक्षणत्वात् स्त्रियाः पण्डकस्य वा । न तैः कैलाससमैः सुवर्णादिभिः किञ्चिदपि परितोषोत्पादनं क्रियते । कुत इत्याह-इच्छा हुर्यस्मादाकाशसमा अनन्तिका अन्तरहिता । यतः
"न सहस्राद् भवेत् तुष्टिर्न लक्षान्न च कोटिभिः । न राज्यान्न च देवत्वान्नेन्द्रत्वादपि देहिनाम्" ॥१॥ ॥४८॥ पुढवी साली जवा चेव हिरण्णं पसुभिस्सह ।
पडिपुन्नं नालमेगस्स इइ विज्जा तवं चरे ॥४९॥ व्याख्या—पृथ्वी भूः, शालयो यवाश्च प्रतीताः, चशब्दः शेषधान्यसमुच्चये, हिरण्यं ताम्राद्युपलक्षणम् । पशुभिरश्वादिभिः सह प्रतिपूर्णं समस्तं नैवालं समर्थं प्रक्रमादिच्छापूर्तये । एकस्य 'जन्तोरिति' शेषः । इत्येतत् पूर्वोक्तं 'विज्ज'त्ति विदित्वा तपो द्वादशधा चरेदासेवेत । तत एव निःस्पृहतयेच्छापूर्तिसम्भवादिति भावः ॥४९॥
एयमटुं निसामित्ता हेऊ-कारणचोइओ ।
तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥५०॥ स्पष्टा, नवरं सत्सु विषयेषु पारलौकिकविषयाभिष्वङ्गं विवेचयितुमिन्द्रो नमिमब्रवीत् ॥५०॥
अच्छेरगमब्भुयए भोए चयसि पत्थिवा ! ।
असंते कामे पत्थेसि संकप्पेण विहन्नसि ॥५१॥ - व्याख्या—आश्चर्यं वर्तते यत् त्वमेवंविधोऽप्यद्भुतकानपूर्वान् भोगांस्त्यजसि हे पार्थिव ! । तथा तत्त्यागादसतोऽविद्यमानान् कामान् प्रार्थयसे तदप्याश्चर्यम् । अथवाऽधिकस्तवात्र दोषः । सङ्कल्पेनोत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन विहन्यसे विविधं बाध्यसे । एवंविधसङ्कल्पस्यापर्यवसितत्वात् । यः सद्विवेकः स प्राप्तान् कामानप्राप्तकाङ्क्षया न त्यजतीति भावः ॥५१॥
एयमटुं निसामित्ता हेऊ-कारणचोइओ ।
तओ नमी रायरिसी देविंदं इणमब्बवी ॥५२॥ प्राग्वत् ॥५२॥ नमिरिन्द्रमब्रवीत्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org