________________
३४२
उत्तरज्झयणाणि-१ पौषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतो भवाणुव्रताधुपलक्षणम्, यदुक्तम्
"सर्वेष्वपि तपोयोगः प्रशस्तः कालपर्वसु ।
अष्टम्यां पञ्चदश्यां च नियतं पौषधं वसेत्" ॥१॥ हे मनुजाधिप ! ॥४२॥
एयमटुं निसामित्ता हेऊ-कारणचोइओ ।
तओ नमी रायरिसी देविंदं इणमब्बवी ॥४३॥ प्राग्वत् ॥४३॥
मासे मासे उ जो बालो कुसग्गेणं तु भुंजए ।
न सो सुक्खायधम्मस्स कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-मासे मासे एव 'तुरेवार्थे' न त्वेकस्मिन्नर्धमासादौ यो बालोऽविवेकः कुशाग्रेण दर्भाग्रेणैव भुङ्क्ते, न तु करादिना । अयं भावो यत् कुशाग्रेऽवतिष्ठते, तदेवाभ्यवहरति, नाधिकम् । न स एवंविधकष्ठानुष्ठाय्यपि सुष्ठ शोभनो निरवद्यत्वादाख्यातोऽर्हदादिभिर्धर्मो यस्य स स्वाख्यातधर्मस्तस्य मुनेः कलां भागमति षोडशीम् । गृहाश्रमादयमेव श्रेयानिति भावः ॥४४॥
एयमटुं निसामित्ता हेऊ-कारणचोइओ।
तओ नर्मि रायरिसिं देविंदो इणमब्बवी ॥४५॥ प्राग्वत् ॥४५॥ पुनरभिष्वङ्गं परीक्षितुमिन्द्रोऽब्रवीत्
हिरण्णं सुवण्णं मणिमुत्तं कंसं दूसं च वाहणं ।
कोसं वड्डइत्ता णं तओ गच्छसि खत्तिया ! ॥४६॥ व्याख्या-हिरण्यं घटितं हेम, सुवर्णमघटितम्, मणयश्चन्द्रकान्तेन्द्रनीलाद्याः, मुक्ता मुक्ताफलानि, कांस्यं कांस्यभाजनादि, दुष्यं वस्त्रम्, वाहनमश्वादि, कोशं भाण्डागारं च वर्धयित्वा । ततो गच्छ क्षत्रिय ! इति ॥४६॥
एयमटुं निसामित्ता हेऊ-कारणचोइओ ।
तओ नमी रायरिसी देविंदं इणमब्बवी ॥४७॥ प्राग्वत् ॥४७॥ सुवन्न-रूप्पस्स उ पव्वया भवे सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि इच्छा हु आगाससमा अणंतिया ॥४८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org