SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४१ नवमं नमिप्रव्रज्याख्यमध्ययनम् जइत्ता विउले जन्ने भोइत्ता समणमाहणे । दच्चा भुच्चा य इट्टा य तओ गच्छसि खत्तिया ! ॥३८॥ व्याख्या—याजयित्वा विपुलान् यागान्, भोजयित्वा श्रमणब्राह्मणान्, दत्त्वा द्विजादिभ्यो गवादीन्, भुक्त्वा च शब्दादिभोगान्, इष्ट्वा च स्वयं यज्ञान्, ततो गच्छ क्षत्रिय ! इति ॥३८॥ एयमढे निसामित्ता हेऊ-कारणचोइओ । तओ नमी रायरिसी देविंदं इणमब्बवी ॥३९॥ प्राग्वत् ।।३९॥ जो सहस्सं सहस्साणं मासे मासे गवं दए । तस्सावि संजमो सेओ अदितस्स वि किंचणं ॥४०॥ व्याख्या—यः सहस्त्रं सहस्त्राणं दशलक्षात्मकं मासे मासे गवां दद्यात्, तस्यापीदृशस्य दातुः संयम आश्रवादिविरतिरूपः श्रेयानतिप्रशस्यः । किम्भूतस्याप्यददतोऽपि किञ्चनाल्पमपि वस्तु गोदानं चेह यागाद्युपलक्षणमेवं संयमस्य प्रशस्यत्वं वदता गोदानादीनां सावद्यत्वमर्थादुक्तम् । अशनादीनां धर्मोपकरणानां च दानं निरवद्यत्वाद् धर्मायैव स्याद् यतः "अशनादीनि दानानि धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि देयानि विधिना बुधैः" ॥१॥ एयमटुं निसामित्ता हेऊ-कारणचोइओ । तओ नर्मि रायरिसिं देविंदो इणमब्बवी ॥४१॥ स्पष्टा, नवरं प्रव्रज्यादृढतां परीक्षितुमिन्द्रो नमिमिदमब्रवीत् ॥४१॥ घोरासमं चइत्ताणं अन्नं पत्थेसि आसमं । इहेव पोसहरओ भवाहि मणुयाहिवा ! ॥४२॥ व्याख्या-घोरो दुरनुचरो य आश्रमो गार्हस्थ्यम्, तस्याल्पसत्त्वैर्दुष्करत्वाद्, यदाह "गृहाश्रमसमो धर्मो न भूतो न भविष्यति । पालयन्ति नराः शूराः क्लीबा: पाखण्डमाश्रिताः" ॥१॥ तं त्यक्त्वाऽन्यं प्रार्थयसेऽभिलषस्याश्रमं प्रव्रज्यालक्षणं तत् क्लीबसत्त्वानुचरित्वाद् भवादृशां नोचितम् । किं तर्हि ? इत्याह-इहैव गृहाश्रमे 'स्थित इति गम्यम्' । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy