SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३४० उत्तरज्झयणाणि - १ नराधिप ! वशे आत्मायत्तौ ताननमत्पार्थिवान् स्थापयित्वा निवेश्य ततो गच्छेति ॥३२॥ एयम निसामित्ता हेऊ - कारणचोड़ओ । तओ नमी रायरसी देविंदं इणमब्बवी ॥३३॥ सुगमा ||३३|| जो सहस्सं सहस्साणं संगामे दुज्जए जिणे । एगं जिणिज्ज अप्पाणं एस से परमो जओ ॥३४॥ व्याख्या — यः सहस्त्रं दशशतात्मकं सहस्त्राणां दशलक्षीं प्रक्रमात् सुभटानां नङ्ग्रामे दुर्जये जयेदभिभवेत् । यदीति गम्यत्वादेकं जयेदात्मानं स्वं 'दुराचारप्रवृत्तमिति शेषः' । एष 'से' तस्य जेतुः सुभटसहस्रजयात् परमः प्रकृष्टो जयस्तदनेनात्मन एव दुर्जयत्वमुक्तामिति ॥३४॥ तथा च--- अप्पाणमेव जुज्झाहि किं ते जुज्झेण बज्झओ ? | अप्पणा चेव अप्पाणं जइत्ता सुहमेह ॥ ३५ ॥ व्याख्या— तृतीयार्थे द्वितीया । ततश्चात्मनैव सह युध्यस्व युद्धं कुरु । किं ? न किञ्चित् 'ते' तव युद्धेन बाह्यतो बाह्यं पार्थिवादिकमाश्रित्यैवं चात्मनैवात्मानं जित्वा सुखमात्यन्तिकं मुक्तिसुखात्मकमेधते प्राप्नोति ॥ ३५ ॥ कथमेतदित्याह— पचिदियाणि कोहं माणं मायं तहेव लोहं च । दुज्जयं चेव अप्पाणं सव्वमप्पे जिए जियं ॥३६॥ व्याख्या - पञ्चेन्द्रियाणि क्रोधो मानो माया तथैव लोभश्च दुर्जयः । 'चैव पूरणे' अतति सततं गच्छति तानि तान्यध्यवसायस्थानानीत्यात्मा मनः 'सर्वत्र सूत्रत्वान्नपुंस्त्वम्' । सर्वमिन्द्रियाद्युपलक्षणान्मिथ्यात्वादि चात्मनि जीवे जिते जितमिति ||३६|| एयम निसामित्ता हेऊ - कारणचोइओ । तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥३७॥ व्याख्या — स्पष्टा, नवरं रागद्वेषत्यागं निश्चित्य जैनधर्मस्थैर्यं परीक्षितुमिन्द्रो नमिमब्रवीत् ||३७|| Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy