SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ३३७ व्याख्या— 'खुरेवार्थे' बह्वेव भद्रं कल्याणमनगारस्य सर्वतो बाह्यादान्तरात् स्वजनात् पराद् वा विप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तमनुपश्यतः पर्यालोचयत इति ||१६|| एयम निसामित्ता हेऊ - कारणचोइओ । तओ न रायरिसिं देविंदो इणमब्बवी ॥१७॥ प्राग्वत् ॥१७॥ तदाह पागारं कारइत्ताणं गोपुरट्टालगाणि य । उच्छूलगसयग्घीओ तओ गच्छसि खत्तिया ! ॥१८॥ व्याख्या –— प्राकारं कोट्टं कारयित्वा गोपुराणि तद्द्द्वाराणि 'कपाटार्गलाद्युपलक्षणं' अट्टालकानि कोट्टकोष्ठकोपर्यायोधनस्थानानि 'उच्छूलग'त्ति खातिका 'सयग्घीओ' त्ति शतघ्न्यो यन्त्रविशेषरूपाः । ततः सर्वं स्वस्थीकृत्य गच्छसीत्यत्र तिव्यत्ययाद् गच्छ क्षत्रिय ! इति ॥ १८॥ एयम निसामित्ता हेऊ - कारणचोड़ओ । तओ नमी रायरसी देविंदं इणमब्बवी ॥१९॥ उक्तार्था ||१९|| तथा— सद्धं नगरं किच्चा तव - संवरमग्गलं । खतिं निउणपागारं तिगुत्तं दुप्पधंसगं ॥२०॥ व्याख्या- - श्रद्धां तत्त्वरूचिरूपां सर्वगुणाधारतया नगरं कृत्वाऽ‍ TS नेनोपशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपः षड्विधं बाह्यं तत्प्रधानः संवर आत्रवरोधरूपस्तं मिथ्यात्वादिदुष्टनिवारकत्वादर्गलं कपाटं च कृत्वा तथा क्षान्ति निपुणं रिपुरक्षाक्षमं प्राकारं कृत्वा तिसृभिरट्टालकादिस्थानीयाभिर्मनोगुप्त्यादिभिर्गुप्तं त्रिगुप्तं दुष्प्रधर्षं दुरभिभवनीयम् ||२०|| इत्थं प्रकारयित्वेति यदुक्तम्, तत्प्रत्युक्तप्राकारादिष्ववश्यं योद्धव्यम्, तच्च प्रहरणादिषु वैरिषु च सत्सु सम्भवीत्यत आह— धणुं परक्कमं किच्चा जीवं च इरियं सदा । धिरं च केयणं किच्चा सच्चेण पलिमंथए ॥२१॥ व्याख्या — धनुः पराक्रमं जीववीर्यलक्षणं कृत्वा जीवां च प्रत्यञ्चां चेर्यास For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy