SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३३६ उत्तरज्झयणाणि-१ किं तदित्याह एस अग्गी य वाऊ य एवं डज्झइ मंदिरं । भयवं अंतेउरतेणं कीस णं नावपेक्खह ? ॥१२॥ व्याख्या-एष प्रत्यक्षोऽग्निश्च वायुश्च तथैतद् दह्यते । अर्थाद् वातेरिताग्निनैव मन्दिरं गृहं 'भवत्सम्बन्धीति शेषः' । भगवन् ! 'अंतेउरंतेणं' ति अन्तःपुराभिमुखं 'कीस'त्ति कस्मात् ‘णमलङ्कारे' नावप्रेक्षसे नावलोकसे ? ||१२।। ततश्च एयमढे निसामित्ता हेऊकारणचोइओ । तओ नमी रायरिसी देविंदं इणमब्बवी ॥१३॥ स्पष्टा, नवरं नमिर्देवेन्द्रमिदमब्रवीदिति ॥१३॥ किमित्याह सुहं वसामो जीवामो जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए न मे डज्झइ किंचणं ॥१४॥ व्याख्या-सुखं यथा स्यादेवं वसामस्तिष्ठामो जीवामः प्राणान् धारयामो येषां 'मो' इत्यस्माकं नास्ति किञ्चन वस्तुजातम् । यतः "एकोऽहं नैव मे कश्चित् स्वः परो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते चैक एव हि" ॥१॥ इति न किञ्चिदन्तःपुरादि मत्सत्कम्, अतो मिथिलायां दह्यमानायां न मे दह्यते किञ्चित् स्वल्पमपि, स्वकर्मफलभुजो हि जन्तव इति । ततोऽनेन प्रागुक्तहेतोरसिद्धत्वं तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्याप्यस्वकीयत्वादिति भावः ॥१४॥ तदेव भावयति चत्तपुत्तकलत्तस्स निव्वावारस्स भिक्खुणो । पियं न विज्जए किंचि अप्पियं पि न विज्जए ॥१५॥ व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रि यस्य भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदप्रियमनिष्टमपि न विद्यते । एतेनाकिञ्चनत्वं समर्थितम् ।।१५।। एवं कथं वसनादीत्याह बहुं खु मुणिणो भई अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स एगंतमणुपस्सओ ॥१६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy