SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३३४ उत्तरज्झयणाणि-१ व्याख्या-कोलाहलो हा तात ! मातरित्यादिविलपिताक्रन्दितादिकलकलः स एव भूतो जातो यस्मिंस्तत् कोलाहलकभूतमासीदभूमिथिलायां 'सर्वं गृहारामादीति गम्यम्' क्व सति प्रव्रजति व्रतमाददाने तदा काले राज्यावस्थायामृषिरिव ऋषिर्भावारिषड्वर्गजयात् तथाऽऽह "कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं यः सदा स सुखी भवेत्" ॥१॥ राजर्षिस्तस्मिन् नमौ राज्यभिनिष्क्रामति गृहात् कषायादिभ्यो वा निर्गच्छति सतीति ॥५।। पुनर्दयदभूत्, तदाह अब्भुट्ठियं रायरिसिं पव्वज्जाट्ठाणमुत्तमं । सक्को माहणरूवेण इमं वयणमब्बवी ॥६॥ व्याख्या-अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानमुत्तमं 'तत्प्रतीति शेषः' । शक्र इन्द्रो ब्राह्मणरूपेणागत्येति योज्यम् । तदाशयं परीक्षितुकाम इदं वक्ष्यमाणं वचनमब्रवीदुक्तवान् ॥६॥ तदेवाह किं नु भो ! अज्ज मिहिलाए कोलाहलगसंकुला । सुव्वंति दारुणा सदा पासाएसु गिहेसु य ॥७॥ व्याख्या 'किमिति प्रश्ने, नु वितर्के, भो इत्यामन्त्रणे' अद्य मिथिलायां कोलाहलकेन सङ्कला व्याकुलाः श्रूयन्ते दारुणा हृदयोद्वेजकाः शब्दा विलपितादयः प्रासादेषु देव-नृपभवनेषु गृहेषु तदन्येषु चशब्दात् त्रिक-चतुष्कादिषु चेति ॥७॥ ततश्च एयमटुं निसामित्ता हेऊ-कारणचोइओ । तओ नमी रायरिसी देविंदं इणमब्बवी ॥८॥ व्याख्या-एतं पूर्वोक्तमर्थं निशम्य श्रुत्वा हेतुः पञ्चावयवरूपः, कारणं चान्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः प्रेरितस्तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणम्, आक्रन्दादिदारुणशब्दहेतुत्वात्, यद् यदाक्रन्दादिदारुणशब्दहेतु, तद् तद् धर्मार्थिनोऽनुचितं यथा प्राणिव्यपरोपणादि, तथा चेदम्, तस्मादनुचितमेवेति पञ्चावयवो हेतुः । आक्रन्दादिशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्नमिति कारणमनयोः पृथगुपादानं 'प्रतिपाद्यभेदतः साधनवैचित्र्यसूचनार्थम्' 'तओ' त्ति ततः प्रेरणाऽनन्तरं नमी राजर्षिदेवेन्द्रमिदमब्रवीदिति ॥८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy