SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ३३३ व्याख्या-च्युत्वा देवलोकादुत्पन्नो मानुषे लोके प्राणिगणे । उपशान्तमनुदयप्राप्तं मोहनीयं दर्शनमोहनीयाख्यं यस्यासावुपशान्तमोहनीयः स्मरति 'वर्तमानत्वं तत्कालापेक्षया' पौराणिकी चिरन्तनी जातिमुत्पत्तिं देवलोकादाविति प्रक्रमः ॥१॥ ततः किमित्याह जाई सरित्तु भयवं सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमई णमी राया ॥२॥ व्याख्या-जातिं प्रागुक्तां स्मृत्वा भगवान् धीमान् 'सह'त्ति स्वयं सम्बुद्धो नान्यबोधितोऽनुत्तरे प्रधाने धर्मे चारित्रधर्मे । पुत्रं स्थापयित्वा राज्येऽभिनिष्क्रामति प्रव्रजति नमी राजा ॥२॥ किं कुर्यादित्याह सो देवलोगसरिसे अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया बुद्धो भोए परिच्चयई ॥३॥ व्याख्या–स इति नमिर्देवलोकसदृशान् देवभोगतुल्यान्, वरमन्तःपुरं तत्र गतः 'प्राकृतत्वात् परनिपातो वरशब्दस्य' वरान् प्रधानान् भोगान् शब्दादीन् भुक्त्वा नमी राजा बुद्धो ज्ञाततत्त्वो भोगान् परित्यजति । पुनर्भोगग्रहणं मुग्धानां स्मृत्यर्थम् ॥३॥ किञ्च मिहिलं सपुर-जणवयं बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खंतो एगंतमहिट्ठिओ भयवं ॥४॥ व्याख्या-मिथिला नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा । तथा बलं गजादिचतुरङ्गम् । अवरोधमन्तःपुरं परिजनं परिकरं सर्वं त्यक्त्वा अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतश्च "एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । न तं पश्यामि यस्याहं नासौ दृश्योऽस्ति यो मम" ॥१॥ इति भावयन् ‘एक एवाहम्' इत्यन्तो निश्चय एकान्तस्तमधिष्ठितः आश्रितः ॥४॥ तदा तत्र यदभूत, तदाह कोलाहलगब्भूअं आसी मिहिलाइं पव्वयंतंमि । तइया रायरिसिमि नमिमि अभिनिक्खमंतंमि ॥५॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy