SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् तादृग् व्यतिकरं ज्ञात्वाऽमात्याद्या अधिविस्मयाः । निश्चिन्वन्ति स्म तत्पुण्यकस्मात्सम्पदावहम् ॥१३६॥ वासरांश्चतुरस्तत्र निर्गम्य नगरे नृपः । नभोऽध्वनाऽत्यगात् प्रीत्या पुनरेत्य नगं दिनान् ॥१३७॥ नगे च नगरे वाऽस्याभूदङ्गेन गतागतम् । मनः कनकमालां तु कदाचिदपि नामुचत् ॥१३८॥ अतत्येष नगे यस्मात् तन्नग्गतिरितीरितः । नृपः सिंहरथो लोकैस्तन्नामैव क्रमादभूत् ॥१३९॥ अन्यदा व्यन्तरो भूपमिदमाख्यन्नगागतम् । प्रणयाद् वां नगेऽमुत्र चिरमस्थामशङ्कितः ॥१४०॥ स्वाम्यादेशो ऽधुनाऽऽयातो यातव्यं तत्र निश्चितम् । करिष्यत्यधृतिं पुत्रीं मां विना तन्निशम्यताम् ॥१४१॥ नैकाकिनीयं मोक्तव्या मा नैषीः शून्यतां नगम् । इत्युदित्वा सतन्त्रोऽसौ व्यन्तरोऽगाददर्शनम् ॥१४२॥ नगरं नग एवास्मिन् भूपोऽपि निरमापयत् । तन्नगातिपुरं नाम्ना पप्रथे नागराश्रितम् ॥ १४३ ॥ तस्मिन् विहारशीर्षस्थस्वर्णकुम्भोत्करैर्दिवा । वीक्ष्यमक्षीणतेजोभिः शतभानुनभस्तलम् ॥१४४॥ अस्मिन्नप्सरां कुलानि विबुधा अस्मिन् प्रभाभासुराः । नार्यः शच्यतिरेकिरूपकलिताः सर्वत्र सुस्थो जयः ॥ पूज्यन्ते गुरवोऽत्र च प्रतिगृहं रम्या सुधर्मेक्ष्यते । न स्वर्गेऽस्त्यधिकं नगातिपुरतः किञ्चिद् बहुश्रीभरात् ॥१४५॥ पुरेऽत्र तस्य भूपस्य यशः कुसुमसौरभम् । दिशोऽध्यवासयत् कल्पद्रुमस्येवोपकुर्वतः ॥१४६॥ उत्तुङ्गजैनप्रासादान् जैनप्रतिकृतीरपि । नैकाः स कारयामास पूजाश्चासामवर्तयत् ॥ १४७॥ अन्योन्यमव्याबाधेन पुमर्थास्तं सिषेविरे । योऽपि तुर्यस्त्वासन्नः समयं प्रत्यपालयत् ॥१४८॥ For Private & Personal Use Only Jain Education International 2010_02 ३२९ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy