________________
३३०
उत्तरज्झयणाणि-१ न्यायधर्मान्वितं राज्यं भक्तानेकावनीश्वरम् । सुखं पालयतस्तस्य सुमहान् समयोऽत्यगात् ॥१४९।। वसन्तोत्सवमन्येधुर्वीक्षितुं पुरसीमनि । सामन्तामात्यसंयुक्तोऽश्वारूढोऽगात् क्षितीश्वरः ॥१५०।। मञ्जरीपिञ्जरं मञ्जुगुञ्जभ्रमरसङ्कलम् । मार्गे स चूतमैक्षिष्ट स्पष्टं छत्रमिवावनेः ॥१५१॥ तदा मोदैकसौरभ्यलुभ्यघ्राणोऽवनीधवः । दर्श दर्शममुं मित्रमिव भेजे परां रतिम् ॥१५२।। लीलया मञ्जरीमेकामग्रहीन्मकरन्दिनीम् । तस्य राजाऽथ जिघ्रस्तां क्रीडाऽर्थी पुरतोऽगमत् ॥१५३।। गतानुगतिकैस्तस्य सैनिकैस्तद्वनस्पतेः ।। मञ्जरी-पल्लव-दलप्रमुखं सर्वमाददे ॥१५४॥ वासन्तीं विभुराधाय क्रीडां प्रत्यावृतः क्रमात् । तं काष्ठशेषमालोक्य सहकारं व्यचिन्तयत् ॥१५५॥ "अहो ! संसारवैरस्यं क्षणिकाः सर्वसम्पदः । योऽभूल्लोचनलेह्यश्रीश्शूतः सोऽजनि हीदृशः ॥१५६॥ क्व ताः सम्प्रति मञ्जयों घ्राणाह्लादैकजीवनम् ? । प्रवालपटलाकाराः क्व ते चूतस्य पल्लवाः ? ॥१५७॥ यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि। यन्निशि स्यान्न तत् प्रातरस्थैर्यमिदमद्भुतम् ॥१५८॥ अलोम सम्पूर्णशशाङ्कशोभि मुखं तु यूनां कतिचिद् दिनानि । भवेत् ततः श्मश्रुविशालजालसेवाललीनानतुलां बिभर्ति ॥१५९॥ धूमेन चित्रं तुहिनेन पद्मं तामित्रपक्षेण यथेन्दुबिम्बम् । पीतं यथा नैव विभाति तद्वत् प्रान्ते जराजर्जरितस्य रूपम् ॥१६०॥ न लक्ष्यते कालगतिः सवेगं चक्रभ्रमभ्रान्तिविधायिनीयम । यया मनुष्यः स्फुटयौवनाढ्यो विधीयते विद्रुतविग्रहोऽन्ते ॥१६१॥ न कुटुम्ब न वा लक्ष्मीन लीलाललितं वयः । दृष्टं चिरस्थिरं किञ्चित् पद्मपत्राम्बुबिन्दुवत् ॥१६२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org