________________
नवमं नमिप्रव्रज्याख्यमध्ययनम्
"अहो ! संसारवैरस्यं दुर्लक्ष्यं मूढमानसैः । कामाद्यैर्यत्र जन्तूनां सुप्रापाऽनुपदं विपत् ॥ १०८ ॥
क्व सुतः क्व च सा पुत्री वासवः क्व स तस्करः ? । अस्थिरत्वं यथैतेषां सर्वस्य जगतस्तथा ॥ १०९ ॥ कः शत्रुः कोऽथवा मित्रमहो ! मोहविजृम्भितम् । येन मूढधियो लोका न जानन्त्यात्मनो हितम् ॥ ११०॥ उत्पथप्रस्थितः शत्रुर्मित्रं सत्पदमाश्रितः । अयमात्मैव बाह्येषु भ्रान्ते शत्रुत्व - मित्रते ॥ १११ ॥ जनो जानात्वदस्तत्त्वं व्यक्तं वैराग्यकारणम् । असन्तोषः परं दुःखं सन्तोषः परमं सुखम् " ॥११२॥ इति संविग्नधीः शान्तः प्राग्भवाधिगमादभूत् । तदैव चारणः साधुः स्वयम्बुद्धः स खेचरः ॥११३॥ ततः कनकमालां तां जीवन्तीं वीक्ष्य विस्मितः । दृढशक्तिमुनिस्तेन व्यन्तरेणेदमौच्यत ॥११४॥
वराकी बालिका नैतद् वेत्ति तत् कल्पितं मया । कारणं शृणु तत्रापि किं गोप्यं हि मुनेः पुरः ? ॥ ११५ ॥ जितशत्रोः पुरा राज्ञो राज्ञी कनकमञ्जरी । अन्ते चित्राङ्गदं तातं विधिना निरयामयत् ॥ ११६॥ स मृत्वा व्यन्तरोऽस्म्येष क्रमात् सेयं तवात्मजा । वासवापहृता शैलेऽत्राज्ञाय्यवधितो मया ॥ ११७॥ हते चौरे हते बन्धौ यावदाश्वासयाम्यहम् । युष्मांस्तावदिह प्राप्तान् वीक्ष्य मायामयोजयम् ॥११८॥ पुत्रीमादाय तातोऽसौ मा गादिति धिया मया । रागेण या कृता माया तां क्षमस्व महामुने ! ॥११९॥ मुनिराख्यत् प्रसन्नाक्षस्त्वया माया यदाहिता । सा साध्वी मे महामाया यया भवमयी हता ॥ १२० ॥ त्वयोपकृतमेतर्हि नापराद्धं मनागपि । इति प्रोच्याशिषं दत्त्वा विजहे नभसा मुनिः ॥ १२१ ॥
For Private & Personal Use Only
Jain Education International 2010_02
३२७
www.jainelibrary.org