SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३२६ उत्तरज्झयणाणि - १ तां पट्टमहिषीं चक्रे ततः प्रमुदितो नृपः । निष्कृत्रिमा हि नारीणां भक्तिर्भर्तृषु कार्मणम् ॥९४॥ अन्यदा विमलाचार्यव्याख्यामाकर्ण्य भूधवः । श्रमणोपासको जज्ञे सपत्नीकः सुतत्त्ववित् ॥९५॥ अथ चित्राङ्गदो राज्ञ्या सम्यग् निर्यामितः पिता । नमस्कारं स्मरन् मृत्वा व्यन्तराख्यसुरोऽभवत् ॥९६॥ देवीत्वमाप्य सौधर्मे धर्मात् कनकमञ्जरी । च्युत्वा ततोऽपि वैताढ्ये तोरणाख्यपुरेऽजनि ॥ ९७॥ शक्तिखगेन्द्रस्य पुत्री कनकमालिका । वासवाख्यखगः कामी युवतीं तामपाहरत् ॥९८॥ नगेऽत्र सौधमासूत्र्य तामन्तरमुचन्मुदा । किलात्रोद्वाहयिष्यामीत्येनां वेर्दी चकार च ॥९९॥ गान्धर्वाय विवाहाय यावदासीत् समुत्सुकः । आगात् कनकमालायाः स्वर्णाचिस्तावदग्रजः ॥१००॥ नियुद्धयमानौ द्वावेतौ मिथः क्रोधात हतौ । कान्दिशीकां तदा कन्यां कश्चिदेत्य सुरोऽवदत् ॥ १०१ ॥ मा शुचः सोदरं वत्से ! प्रधनेऽभिमुकं हतम् । साक्षिणो विक्रमे यस्य सुरा अप्यस्मदादयः ॥१०२॥ तपोधना जितात्मानः सम्मुखं निहता भटाः । भर्तृभक्तास्तथा नार्यो भवन्ति स्वर्गभाजनम् ॥१०३॥ शोकाच्छोकैकसन्तापो ह्यर्थादर्थ इदं ध्रुवम् । तच्छुचं त्यज यत् पुत्री त्वं मेऽतः प्रोच्यसे मया ॥ १०४ ॥ एनामेतावदुत्प्रीति: सुरो यावदवार्तयत् । पुत्रान्वेषणधीस्तावद् दृढशक्तिरुपागमत् ॥१०५॥ वासवं च सुतं चैव वीक्षामास मृतावुभौ । सुतां कनकमालां च लूनमूर्धानमैक्षत ॥१०६॥ संवेगादित्यसौ दध्यौ निराशेन ममाङ्गजा । प्राग् वासवेन निहता पुत्रः सोऽपि ततो मृतौ ॥ १०७॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy