SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३२२ उत्तरज्झयणाणि-१ आवर्तय कथां काञ्चिद् यथातिक्रमते निशा ।। साऽप्याह स्वपितु स्वामी भणिष्यामि कथां ततः ॥३९।। तत्कथां काम्यति श्रोतुं भूधवे शयिते मृषा । सुधामिव स्रवन्ती तामाख्यत् कनकमञ्जरी ॥४०॥ ग्रामे कस्यापि वणिजस्तनुजोद्भिन्नयौवना । मात्रा पित्रा तथा भ्रात्राऽन्यत्रान्यत्र वृताऽथ सा ॥४१॥ परस्परमजानद्भिर्जापिते तैः शुभे क्षणे । डुढौकिरे त्रयोऽप्येते वराः पाणिग्रहेच्छया ॥४२॥ . मात्रादिषु सचिन्तेषु जने चोल्लासिकौतुके । वराः कन्यामिमां वीक्ष्याभवन् निभृतमादृताः ॥४३॥ अत्रान्तरेऽहिना दष्टा मृताऽकस्माद् वणिक्सुता । तेष्वेकोऽतिदृढस्नेहश्चितां सह तयाऽविशत् ॥४४॥ वियोगतो वरं मृत्युरेकशो हि स पीडयेत् । नित्यं प्रियवियोगाग्निदग्धस्य प्राणिते न किम् ? ॥४५॥ द्वितीयोऽनशनं भेजे यतः प्रियजनं विना । सर्वमाहारशय्यादि विषादप्यतिरिच्यते ॥४६।। कातर्येण कृतं किञ्चिज्जीवनोपायमादधे । इति ध्यात्वा तृतीयेन देवताऽऽराधनं कृतम् ॥४७॥ प्राप्य सञ्जीवनं मन्त्रं तेन द्वाप्यजीवयत् । अथोपतस्थिरे भूयस्ते तत्पाणिजिघृक्षवः ॥४८|| इतो मदनिकावादीदेतेषां तुल्यमिच्छताम् । एकेन कन्यका केन पर्यणायि वरेण सा ? ॥४९॥ राज्युवाच प्रमीलायां प्रविष्टे मम लोचने । श्वः पृच्छेर्यदि ते चित्रमित्युक्त्वा सुखमस्वपीत् ॥५०॥ जिज्ञासुना कथातत्त्वं राज्ञाऽन्येऽह्नि सकौतुकम् । दत्तेऽस्यै वारके दासी मृषासुप्ते नृपेऽवदत् ॥५१॥ स्वामिन्याख्याहि युवती प्रेयसी कस्य साऽभवत् ? | कौतुकेनामुना कृच्छ्रे व्यतिक्रान्तो मया दिनः ॥५२॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy