SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३२० मुक्कालीं विकिरन्तीव कन्या प्राह महीश्वरम् । असौ नेदीयसी वेदी तत्र मामुद्वहाधुना ॥ ११॥ गान्धर्वेण विवाहेन ततोऽहं निर्वृता सती । स्वं वृत्तं सर्वमाख्यास्ये सुस्था निजपतेः पुरः ||१२|| नृपोऽप्यथैतया युक्तो नत्वाऽभ्यर्च्य जिनेश्वरम् । वैदिकाग्नि परीत्यास्याश्चकारोद्वाहमङ्गलम् ॥१३॥ सर्वसौख्यक्षणमयीं तया विश्रम्य शर्वरीम् । प्रबुद्धः कृतजैनार्चादिकार्यः शुद्धिमत्तनुः ॥१४॥ सदाऽग्रेऽपि ममैवेयमहमस्याः सदा पतिः । इतीव प्रतिभातीदमिति दध्यौ हृदीशिता ॥ १५॥ युवत्यत्रान्तरेऽवादीत् कृतार्थाऽथास्म्यहं विभो ! । शुश्रूषितामतो वार्तामुच्यमानां मया शृणु ॥ १६ ॥ पुरे क्षतिप्रतिष्ठा जितशत्रुनभून्नृपः । यत्प्रतापैकदीपान्तः शत्रुभिः शलभायितम् ॥१७॥ परेषामयमुत्कृष्टं श्रुत्वाऽऽसीत् तत्र कौतुकी । क्षणेनाचीकरत् तच्च दुःसाद्यं किं हि तादृशाम् ? ॥१८॥ विभो ! चित्रसभैवैका रम्या नो तव सद्मनि । विज्ञप्त इति दूतेनान्यदोपाक्रमयत् स ताम् ॥१९॥ तत्र सर्वान् समाहूय निपुणांश्चित्रशिल्पिनः । समांशेन सभाभित्तीस्तेभ्यश्चित्राय सोऽर्पयत् ॥२०॥ एकश्चित्रकलोत्कर्षी वर्षीयांस्तत्र चित्रकृत् । चित्रं चित्राङ्गदाख्योऽयं स्वांशकुड्ये प्रचक्रिवान् ॥२१॥ तस्यान्वहं गृहाद् भक्तं सुता कनकमञ्जरी । निष्पुत्रादिसहायस्यानिनाय प्राप्तयौवना ॥२२॥ एकदा वेगमुक्तेन वाजिना राजवर्त्मनि । एकं सादिनमद्राक्षीत् सा यान्ती राजशोभितम् ||२३|| पलाय्य लोकवत् साऽपि क्षणं स्थित्वाऽथ सादिनि । अतिक्रान्ते द्रुतं प्रापोपतातं चित्रसंसदि ॥ २४ ॥ For Private & Personal Use Only उत्तरज्झयणाणि - १ Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy