SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३१८ उत्तरज्झयणाणि-१ अन्यदाऽऽकस्मिको दाघज्वरोऽभून्नमिभूभुजः । असाध्य इति षण्मासैस्तत्यजे यो भिषग्वरैः ॥१५१॥ ततो निर्वृतये तस्य तावानन्तःपुरीजनः । स्वयं जघर्ष श्रीखण्डखण्डानासन्नवेश्मसु ॥१५२।। निःस्वानस्वनवत् कर्णमर्माघातकरः स्वरः ।। वलयान्योन्यसंघर्षभवोऽभूद् दुःसहो नमः ॥१५३।। तामर्तिमथ विज्ञायावरोधवनिता नमः । एकैकं स्थापयामासुः करे मङ्गलकङ्कणम् ॥१५४।। कङ्कणानां क्वणः क्वागादिति पृच्छति भूधवे । एकैकत्वेन कैवल्यभाजामेष कुतो भवेत् ? ॥१५५॥ इत्यमात्यवचः श्रुत्वोबुद्धतात्त्विकवासनः । चिन्तयामास संक्लेशं संयोगैकनिबन्धनम् ॥१५६।। "यावद्भिर्युज्यते जीव: सुखलेशैकवाञ्छया । दुःखाख्यविषवृक्षस्य तावन्तो यान्ति बीजताम् ॥१५७॥ सुहृत्-पत्नी-सुतादीनां जन्तुर्योगेन हृष्यति । न वेत्ति परिणामोऽस्य शल्यतुल्यो भविष्यति ॥१५८॥ ऐक्यभावनयैकान्ते द्विधा सम्बन्धनिस्तृषः । ध्यायन्नेकं परात्मानं परानन्दमवाप्नुयात्" ॥१५९॥ इतो रोगाद् विनिर्मुक्तो निरारम्भः क्षमी दमी । निस्सङ्गो व्रतमाधाय यतिष्ये सिद्धिसिद्धये ॥१६०॥ सुप्तः कृत्वा मनस्तादृक् पुण्यचिन्तासमीहितम् । षण्मासान्तरनायातां प्राप निद्रां नरेश्वरः ॥१६१।। मेरुमूर्धानमारूढोऽहमारुह्येन्द्रकुञ्जरम् । रात्रौ विभातप्रायायां स्वप्नमेतद् तं ददर्श च ॥१६२॥ ततो नान्दीरवोद्बुद्धः परमारोग्यभाग् नृपः । अमुं शैलमहं क्वापि दृष्टपूर्वीत्यचिन्तयत् ॥१६३।। जातिस्मृतिमथासाद्याज्ञासीत् प्राग्जन्मनिर्मितम् । स्व:शैलेऽर्हज्जनुःस्नात्रमहिमानं स्वयं कृतम् ॥१६४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy